छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःसप्तमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
स एष ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां चेति तद्य इमे वीणायां गायन्त्येतं ते गायन्ति तस्मात्ते धनसनयः ॥ ६ ॥
स एषः चाक्षुषः पुरुषः ये च एतस्मात् आध्यात्मिकादात्मनः अर्वाञ्चः अर्वाग्गताः लोकाः तेषां चेष्टे मनुष्यसम्बन्धिनां च कामानाम् । तत् तस्मात् य इमे वीणायां गायन्ति गायकाः त एतमेव गायन्ति । यस्मादीश्वरं गायन्ति तस्मात्ते धनसनयः धनलाभयुक्ताः, धनवन्त इत्यर्थः ॥

आधिदैविकपुरुषवदाध्यात्मिकेऽपि पुरुषे निरतिशयैश्वर्यश्रवणाच्च तयोरैक्यमित्याह –

स एष इति ।

तयोर्भेदाभावे हेत्वन्तरमाह –

तत्तस्मादिति ।

ईश्वरस्यैव प्रागुक्तहेतोर्गानविषयत्वयोग्यत्वादित्यर्थः ।

तच्छब्दार्थं स्फुटयति –

यस्मादिति ॥ ६ ॥