छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःसप्तमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अथ य एतदेवं विद्वान्साम गायत्युभौ स गायति सोऽमुनैव स एष ये चामुष्मात्पराञ्चो लोकास्ताꣳश्चाप्नोति देवकामाꣳश्च ॥ ७ ॥
अथ य एतदेवं विद्वान् यथोक्तं देवमुद्गीथं विद्वान् साम गायति उभौ स गायति चाक्षुषमादित्यं च । तस्यैवंविदः फलमुच्यते — सोऽमुनैव आदित्येन स एष ये च अमुष्मात्पराञ्चः लोकाः तांश्च आप्नोति, आदित्यान्तर्गतदेवो भूत्वेत्यर्थः, देवकामांश्च ॥

स्थानभेदेन यथोक्तोपासन्नवतः फलोक्त्यर्थं पातनिकां करोति –

अथेति ।

एतत्सामेति सम्बन्धः ।

एवं विद्वानित्येतदेव विभजते –

यथोक्तमिति ।

विद्वानित्यस्मादुपरिष्टादथशब्दः सम्बध्यते । सोऽमुनैव लोकान्कामांश्चाऽऽप्नोतीति सम्बन्धः ।

आप्तिप्रकारं विवृणोति –

स एष इति ।

उपास्यवदुपासकस्यापि कुतो निरतिशयमैश्वर्यं न हि द्वयोर्निरङ्कुशमैश्वर्यं युक्तमित्याशङ्क्याऽऽह –

आदित्येति ।

अमुनैवाऽऽदित्येनेत्युक्तमेवात्र व्यक्तीकृतम् ॥ ७ ॥