छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःसप्तमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
कं ते काममागायानीत्येष ह्येव कामागानस्येष्टे य एवं विद्वान्साम गायति साम गायति ॥ ९ ॥
अथ अनेनैव चाक्षुषेणैव ये च एतस्मादर्वाञ्चो लोकाः तांश्च आप्नोति, मनुष्यकामांश्च — चाक्षुषो भूत्वेत्यर्थः । तस्मादु ह एवंवित् उद्गाता ब्रूयात् यजमानम् — कम् इष्टं ते तव काममागायानीति । एष हि यस्मादुद्गाता कामागानस्य उद्गानेन कामं सम्पादयितुमीष्टे समर्थः इत्यर्थः । कोऽसौ ? य एवं विद्वान् साम गायति । द्विरुक्तिरुपासनसमाप्त्यर्था ॥

अथशब्दस्तथापर्यायः । चाक्षुषो भूत्वाऽनेनैव चाक्षुषेणैवेति सम्बन्धः । उक्तफ्लस्य याजमानत्वं दर्शयति –

तस्मादिति ।

तच्छब्दार्थमेव कथयति –

एष हीति ।

उद्गातारं विशिनष्टि –

कोऽसाविति ।

उद्गीथे परस्य सम्पाद्योपासनं विभागेनोक्तमुपसंहरति –

द्विरुक्तिरिति ॥ ८ - ९ ॥

इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्य सप्तमः खण्डः ॥