छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःअष्टमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
त्रयो होद्गीथे कुशला बभूवुः शिलकः शालावत्यश्चैकितायनो दाल्भ्यः प्रवाहणो जैवलिरिति ते होचुरुद्गीथे वै कुशलाः स्मो हन्तोद्गीथे कथां वदाम इति ॥ १ ॥
अनेकधोपास्यत्वात् अक्षरस्य प्रकारान्तरेण परोवरीयस्त्वगुणफलमुपासनान्तरमानिनाय । इतिहासस्तु सुखावबोधनार्थः । त्रयः त्रिसङ्ख्याकाः, ह इत्यैतिह्यार्थः, उद्गीथे उद्गीथज्ञानं प्रति, कुशलाः निपुणा बभूवुः ; कस्मिंश्चिद्देशेकाले च निमित्ते वा समेतानामित्यभिप्रायः । न हि सर्वस्मिञ्जगति त्रयाणामेव कौशलमुद्गीथादिविज्ञाने । श्रूयन्ते हि उषस्तिजानश्रुतिकैकेयप्रभृतयः सर्वज्ञकल्पाः । के ते त्रय इति, आह — शिलकः नामतः, शलावतोऽपत्यं शालावत्यः ; चिकितायनस्यापत्यं चैकितायनः, दल्भगोत्रो दाल्भ्यः, द्व्यामुष्यायणो वा ; प्रवाहणो नामतः, जीवलस्यापत्यं जैवलिः इत्येते त्रयः — ते होचुः अन्योन्यम् — उद्गीथे वै कुशलाः निपुणा इति प्रसिद्धाः स्मः । अतो हन्त यद्यनुमतिर्भवताम् उद्गीथे उद्गीथज्ञाननिमित्तां कथां विचारणां पक्षप्रतिपक्षोपन्यासेन वदामः वादं कुर्म इत्यर्थः । तथा च तद्विद्यसंवादे विपरीतग्रहणनाशोऽपूर्वविज्ञानोपजनः संशयनिवृत्तिश्चेति । अतः तद्विद्यसंयोगः कर्तव्य इति च इतिहासप्रयोजनम् । दृश्यते हि शिलकादीनाम् ॥

अध्यात्माधिदैवतस्थानभेदावच्छिन्नपरमात्मदृष्ट्योद्गीथोपासनमखिलपाप्मापगमफलमुक्तम् । सम्प्रति स्थानभेदावच्छेदं हित्वा परोवरीयस्त्वगुणकपरमात्मदृष्ट्योद्गीथोपासनं परोवरीयस्त्वप्राप्तिफलकमानीतवानाम्नाय इति प्रकरणतात्पर्यमाह –

अनेकधेति ।

तर्हि विवक्षितमुपासनमेवोच्यतां किमाख्यायिकयेत्याशङ्क्याऽऽह –

इतिहासस्त्विति ।

इतिहासः पूर्ववृत्तम् । इतिह(स्य)भाव ऐतिह्यम् । समेतानामिति निर्धारणे षष्ठी ।

ननु सर्वस्मिञ्जगति त्रयाणामेवोद्गीथादिझाने कौशलमिति किं नोच्यते किमिति तेषां मध्ये त्रयाणामेव तन्नैपुण्यं प्रतिज्ञायते तत्राऽऽह –

न हीति ।

अमुष्य प्रसिद्धस्यापत्यमामुष्यायणो द्वयोरामुष्यायणो द्व्यामुष्यायणः । तव मम चायमिति परिभाषया धर्मतः परिगृहीत इति यावत् ।

किमर्थो वादारम्भ इत्यत आह –

तथा चेति ।

प्रवृत्ते वादे तस्मिन्विवक्षितेऽर्थे विद्या येषां तैः सह सम्वादे दृष्टमेव फलमित्यर्थः । इतिशब्दस्य प्रयोजनमित्यनेन सम्बन्धः ।

वादारम्भस्य दृष्टफलत्वे फलितमाह –

अत इति ।

इतिहासस्तु सुखावबोधार्थं इत्युक्तेन समुच्चयार्थश्चकारः ।

कथं यथोक्तं फलं दृष्टमित्याशङ्क्याऽऽह –

दृश्यते हीति ।

शीलकादीनां तद्विद्ययोगे विपरीतधीध्वंसादिकं फलमिति शेषः ॥ १ ॥