छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःअष्टमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तथेति ह समुपविविशुः स ह प्रवाहणो जैवलिरुवाच भगवन्तावग्रे वदतां ब्राह्मणयोर्वदतोर्वाचꣳ श्रोष्यामीति ॥ २ ॥
तथेत्युक्त्वा ते समुपविविशुः ह उपविष्टवन्तः किल । तत्र राज्ञः प्रागल्भ्योपपत्तेः स ह प्रवाहणो जैवलिरुवाच इतरौ — भगवन्तौ पूजावन्तौ अग्रे पूर्वं वदताम् ; ब्राह्मणयोरिति लिङ्गाद्राजा असौ ; युवयोर्ब्राह्मणयोः वदतोः वाचं श्रोष्यामि ; अर्थरहितामित्यपरे, वाचमिति विशेषणात् ॥

तत्रेति निर्धारणार्था सप्तमी । राज्ञः प्रागल्भ्योपपत्तेरित्युक्तं तस्य राजत्वे हेत्वभावादित्याशङ्क्याऽऽह –

ब्राह्मणयोरितीति ।

पक्षान्तरं विशेषणसामर्थ्यादुत्थाप्याङ्गीकरोति –

अर्थेति ॥ २ ॥