मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायः
अष्टमः खण्डः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (छान्दोग्य)
स ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाच हन्त त्वा पृच्छानीति पृच्छेति होवाच ॥ ३ ॥
उक्तयोः स ह शिलकः शालावत्यः चैकितायनं दाल्भ्यमुवाच — हन्त यद्यनुमंस्यसे त्वा त्वां पृच्छानि इत्युक्तः इतरः पृच्छेति होवाच ॥
राज्ञा यथोक्तेन प्रकारेणोक्तयोर्ब्राह्मणयोर्मध्ये शालावत्यो दाल्भ्यं प्रत्युवाचेति सम्बन्धः ॥ ३ ॥