छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःअष्टमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
का साम्नो गतिरिति स्वर इति होवाच स्वरस्य का गतिरिति प्राण इति होवाच प्राणस्य का गतिरित्यन्नमिति होवाचान्नस्य का गतिरित्याप इति होवाच ॥ ४ ॥
लब्धानुमतिराह — का साम्नः — प्रकृतत्वादुद्गीथस्य ; उद्गीथो हि अत्र उपास्यत्वेन प्रकृतः ; ‘परोवरीयांसमुद गीथम्’ इति च वक्ष्यति — गतिः आश्रयः, परायणमित्येतत् । एवं पृष्टो दाल्भ्य उवाच — स्वर इति, स्वरात्मकत्वात्साम्नः । यो यदात्मकः स तद्गतिस्तदाश्रयश्च भवतीति युक्तम् , मृदाश्रय इव घटादिः । स्वरस्य का गतिरिति, प्राण इति होवाच ; प्राणनिष्पाद्यो हि स्वरः, तस्मात्स्वरस्य प्राणो गतिः । प्राणस्य का गतिरिति, अन्नमिति होवाच ; अन्नावष्टम्भो हि प्राणः, ‘शुष्यति वै प्राण ऋतेऽन्नात्’ (बृ. उ. ५ । १२ । १) इति श्रुतेः, ‘अन्नं दाम’ (बृ. उ. २ । २ । १) इति च । अन्नस्य का गतिरिति, आप इति होवाच, अप्सम्भवत्वादन्नस्य ॥

साम्नो गतिरित्यन्वयः । सामशब्दार्थमाह –

प्रकृतत्वादिति ।

तस्य पूर्वोत्तरग्रन्थयोः प्रकृतत्वं प्रकटयति –

उद्गीथो हीति ।

गतिशब्दस्य क्रियाविषयत्वं व्यावर्तयति –

आश्रय इति ।

औपचारिकमाश्रयं निरस्यति –

परायणमित्येतदिति ।

स्वरो ध्वनिभेदः कथमुद्गीथस्य गतिरित्याशङ्क्याऽऽह –

स्वरात्मकत्वादिति ।

तद्व्यञ्जकतया तदाश्रयत्वेन तत्तादात्म्याद्भवति स्वरस्तस्य गतिरित्यर्थः ।

साम्नः स्वरात्मकत्वेऽपि कतं तद्गतित्वमित्याशङ्क्य दृष्टान्तेन परिहरति –

यो यदात्मक इति ।

प्राणस्यान्नावष्टम्भत्वे वाजसनेयश्रुतिं प्रमाणयति –

शुष्यतीति ।

वत्सस्थानीयस्य प्राणस्यान्नं दाम बन्धनमिति च श्रुतेरित्यर्थः । ता अन्नमसृजन्तेति श्रुतेरन्नस्याप्सम्भवत्वं द्रष्टव्यम् ॥ ४ ॥