उपदेशपारम्पर्यमागमः । यत्कृतकं तदनित्यमिति स्वर्गस्यान्तवत्त्वान्न परायणत्वं सम्भवतीत्याशयेनाऽऽह –
किलेति चेति ।
यथोक्तं न्यायं सूचयतीति शेषः ।
न्यायागमाभ्यामप्रतिष्ठितं ते सामेत्युपसंहरति –
दाल्भ्येति ।
स्वर्गप्रतिष्ठितं सामेति ज्ञाने दोषं दर्शयति –
यस्त्विति ।
असहिष्णुर्मिथ्यावचनमसहमानः सन्निति यावत् । एतस्मिन्काले मिथ्यावचनावस्थायामित्यर्थः । विपरीतं विज्ञानं यस्य स तथोक्तस्तं प्रतीति विग्रहः ।
तदेव विपरीतज्ञानभिनयति –
अप्रतिष्ठितमिति ।
सामाप्रतिष्ठितं प्रतिष्ठितमिति विपरीतज्ञानं प्रति कश्चिद्ब्रूयादिति सम्बन्धः ।
तदीयवचनमेव दर्शयति –
एवमिति ।
स तथा कथयतु मम तु किं स्यादित्याशङ्क्याऽऽह –
एवमुक्तस्येति ।
तथैव विदुषः शापवाक्यानुसारेणेति यावत् । तदिति शिरोनिरुक्तिः ।
शापदानाय प्रवृत्तस्त्वयमिति शङ्कां वारयति –
नत्विति ।
मूर्धपातोपन्यासानर्थक्यमाशङ्कते –
नन्विति ।
अपराधाभावेऽपि परोक्तिवशान्मूर्धपाते दोषमाह –
अन्यथेति ।
सति चापराधे परोक्तिवैधुर्यान्मूर्धपाताभावे दोषं कथयति –
कृतेति ।
अपराधस्य मूर्धपातहेतोरपि सहकार्यपेक्षत्वादभिव्याहरणं नानर्थकमित्युत्तरमाह –
नैष दोष इति ।
कर्मणः शुभादेराचरितस्य निमित्तापेक्षया फलहेतुत्वेऽपि प्रकृतेऽपराधिनि कुतो व्याहरणापेक्षेत्याशङ्क्याऽऽह –
तत्रेति ।
तत्र शुभादौ कर्मण्येव निमित्तापेक्षया फलप्रदे सतीत्यर्थः । इति पराभिव्याहरणमर्थवदिति शेषः ॥ ६ ॥