हन्तेत्यादि व्याकरोति –
एवमिति ।
कथमनुष्य लोकस्यैतल्लोकप्रतिष्ठत्वं तदाह –
अयं लोक इति ।
आदिशब्दः श्राद्धादिसङ्ग्रहार्थः ।
तत्रैव श्रुतिं प्रमाणयति –
इतीति ।
अस्माल्लोकात्प्रदीयमानं चरुपुरोडाशाद्यग्निद्वारोपजीवन्ति देवा इति श्रौती प्रसिद्धिरित्यर्थः ।
भवतु परं लोकं प्रति प्रतिष्ठात्वमस्य लोकस्य तथाऽपि कथमयं लोकः साम्नः प्रतिष्ठेत्याशङ्क्याऽऽह –
प्रत्यक्षं हीति ।
पृथिव्याः सर्वाणि भूतानि प्रति प्रतिष्ठात्वे फलितमाह –
अत इति ।
साम्नोऽपि सर्वान्तर्भावादित्यर्थः ।
तथाऽपि प्रतिष्ठान्तरं त्वया वाच्यमित्याशङ्क्याऽऽह –
अतो वयमिति ।
यस्मादेतल्लोकप्रतिष्ठात्वेन संस्तुतं साम तस्मादिदं साम प्रत्येतमेव लोकं प्रतिष्ठां जानीम इति योजना ।
कथं प्रतिष्ठात्वेन सामत्वाविशेषात्पृथिव्या साम संस्तुतमित्याशङ्क्याऽऽह –
इयमिति ।
इयं वै रथन्तरमिति रथन्तरशब्दवाच्यस्य सामविशेषस्य पृथिवीत्वेन स्तुतत्वादुद्गीथस्यापि सामत्वविशेषात्पृथिव्यात्मत्वं सम्भाव्यत इत्यर्थः ॥ ७ ॥