मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायः
अष्टमः खण्डः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (छान्दोग्य)
तꣳ ह प्रवाहणो जैवलिरुवाचान्तवद्वै किल ते शालावत्य साम यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेदिति हन्ताहमेतद्भगवत्तो वेदानीति विद्धीति होवाच ॥ ८ ॥
तमेवमुक्तवन्तं ह प्रवाहणो जैवलिरुवाच अन्तवद्वै किल ते शालावत्य सामेत्यादि पूर्ववत् । ततः शालावत्य आह — हन्ताहमेतद्भगवत्तो वेदानीति ; विद्धीति होवाच इतरः ॥
हन्ताहमेतदित्यत्रानन्तं सामैतदित्युच्यते ॥ ८ ॥
इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्याष्टमः खण्डः ॥