छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःनवमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अस्य लोकस्य का गतिरित्याकाश इति होवाच सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानाकाशः परायणम् ॥ १ ॥
अनुज्ञातः आह — अस्य लोकस्य का गतिरिति, आकाश इति होवाच प्रवाहणः ; आकाश इति च पर आत्मा, ‘आकाशो वै नाम’ (छा. उ. ८ । १४ । १) इति श्रुतेः ; तस्य हि कर्म सर्वभूतोत्पादकत्वम् ; तस्मिन्नेव हि भूतप्रलयः — ‘तत्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) ‘तेजः परस्यां देवतायाम्’ (छा. उ. ६ । ८ । ६) इति हि वक्ष्यति ; सर्वाणि ह वै इमानि भूतानि स्थावरजङ्गमानि आकाशादेव समुत्पद्यन्ते तेजोबन्नादिक्रमेण, सामर्थ्यात् , आकाशं प्रति अस्तं यन्ति प्रलयकाले तेनैव विपरीतक्रमेण ; हि यस्मादाकाश एवैभ्यः सर्वेभ्यो भूतेभ्यः ज्यायान् महत्तरः, अतः स सर्वेषां भूतानां परमयनं परायणं प्रतिष्ठा त्रिष्वपि कालेष्वित्यर्थः ॥

आकाशशब्दस्य भूताकाशविषयत्वं व्यावर्त्यं परमात्मविषयत्वं वाक्यशेषवशाद्दर्शयति –

आकाश इति चेति ।

किञ्च परस्याऽऽत्मनः सर्वभूतोत्पादकत्वं कर्मेति वेदान्तमर्यादा, तदिहाऽऽकाशे श्रुतं तथा च परमात्मैवाऽऽकाशशब्द इत्याह –

तस्य हीति ।

किञ्च परस्मिन्नेव भूतानां प्रलयः स चात्राऽऽकाशे श्रुतस्तस्मात्पर एवाऽऽत्माऽऽकाश इत्याह –

तस्मिन्नेवेति ।

सर्वोत्पादकत्वं परस्य कर्मेत्यत्र मानमाह –

तत्तेजोऽसृजतेति ।

परस्मिन्नेव लयो भूतानामित्यत्रापि मानमाह –

तेज इति ।

भवतु परस्याऽऽत्मनः सर्वोत्पादकत्वं कर्म तथाऽपि किमायातमाकाशस्येति चेत्तत्राऽऽह –

सर्वाणीति ।

कथमयं क्रमो लभ्यते ।

अविशेषेण हि ततः सर्वोत्पत्तिः श्रुतेत्याशङ्क्याऽऽह –

सामर्थ्यादिति ।

आत्मन आकाशः सम्भूतस्तत्तेजोऽसृजतेत्यादिश्रुतिबलादित्यर्थः ।

तथाऽपि कथमाकाशे सर्वभूतलयस्तत्राऽऽह –

आकाशं प्रतीति ।

विपर्ययेण तु क्रमोऽत इति न्यायेनाऽह –

विपरीतेति ।

आकाशस्य परमात्मत्वे हेत्वन्तरमाह –

यस्मादिति ।

परायणत्वमपि तत्रैव लिङ्गमित्याह –

अत इति ॥ १ ॥