आकाशस्तल्लिङ्गादिति न्यायेनाऽऽकाशस्य परमात्मत्वमुक्तमिदानीं तस्योद्गीथे सम्पादितस्य परोवरीयस्त्वं गुणमुपदिशति –
यस्मादिति ।
उत्तरमुत्तरं श्रेष्ठादपि श्रेष्ठोऽयमित्येतत् ।
साममात्रस्य कथमयं गुणः स्यादित्याशङ्क्याऽऽह –
परमात्मेति ।
आकाशस्य परमात्मत्वे लिङ्गान्तरमाह –
अत एवेति ।
परमात्मसम्पन्नत्वादिति यावत् । आकाशो हि प्रकृतोद्गीथे सम्पादितोऽनन्तः श्रुतः । न चाऽऽनन्त्यं ब्रह्मणोऽन्यत्र युक्तम् । सत्यं ज्ञानमनन्तं ब्रह्मेति श्रुतेः । तस्मादाकाशो ब्रह्मेत्यर्थः ।
संप्रत्याकाशशब्दितस्य परस्योद्गीथे सम्पादितस्य परोवरीयस्त्वगुणविशिष्टस्योपास्तिं विदधाति –
तमेतमिति ।
परं परमुपर्युपरीति यावत् । तस्मादेवमुपासीतेति भावः ॥ २ ॥