छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःनवमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तꣳ हैतमतिधन्वा शौनक उदरशाण्डिल्यायोक्त्वोवाच यावत्त एनं प्रजायामुद्गीथं वेदिष्यन्ते परोवरीयो हैभ्यस्तावदस्मिंल्लोके जीवनं भविष्यति ॥ ३ ॥
किं च तमेतमुद्गीथं विद्वान् अतिधन्वा नामतः, शुनकस्यापत्यं शौनकः, उदरशाण्डिल्याय शिष्याय एतम् उद्गीथदर्शनम् उक्त्वा उवाच — यावत् ते तव प्रजायाम् , प्रजासन्ततावित्यर्थः, एनम् उद्गीथं त्वत्सन्ततिजा वेदिष्यन्ते ज्ञास्यन्ति, तावन्तं कालं परोवरीयो हैभ्यः प्रसिद्धेभ्यो लौकिकजीवनेभ्यः उत्तरोत्तरविशिष्टतरं जीवनं तेभ्यो भविष्यति ॥

विधिशेषमर्थवादं दर्शयति –

किञ्चेति ।

इतश्चात्र विधिरस्तीत्येतत् । तेभ्यस्तत्सन्ततिजा ये यथोक्तोद्गीथवेदितारस्तदर्थमित्यर्थः ॥ ३ ॥