छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःनवमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तथामुष्मिंल्लोके लोक इति स य एतमेवं विद्वानुपास्ते परोवरीय एव हास्यास्मिंल्लोके जीवनं भवति तथामुष्मिंल्लोके लोक इति लोके लोक इति ॥ ४ ॥
तथा अदृष्टेऽपि परलोके अमुष्मिन् परोवरीयांल्लोको भविष्यतीत्युक्तवान् शाण्डिल्याय अतिधन्वा शौनकः । स्यादेतत्फलं पूर्वेषां महाभाग्यानाम् , नैदंयुगीनानाम् — इत्याशङ्कानिवृत्तये आह — स यः कश्चित् एतमेवं विद्वान् उद्गीथम् एतर्हि उपास्ते, तस्याप्येवमेव परोवरीय एव ह अस्य अस्मिंल्लोके जीवनं भवति तथा अमुष्मिंल्लोके लोक इति ॥

तथा दृष्टविशिष्टतरजीवनवदित्यर्थः । अदृष्टेऽपीति च्छेदः । स य एतमित्याद्युत्तरं वाक्यं शङ्कोत्तरत्वेनोत्थ्याप्य व्याचष्टे –

स्यादित्यादिना ।

अस्मिन्युगे भवन्तीत्यैदंयुगीनास्तेषामैदंयुगीनानां लोकः परोवरीयानिति शेषः । पुनरुक्तिरुद्गीथोपास्तिसमाप्त्यर्था ॥ ४ ॥

इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्य नवमः खण्डः ॥