छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःदशमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
मटचीहतेषु कुरुष्वाचिक्या सह जाययोषस्तिर्ह चाक्रायण इभ्यग्रामे प्रद्राणक उवास ॥ १ ॥
उद्गीथोपासनप्रसङ्गेन प्रस्तावप्रतिहारविषयमप्युपासनं वक्तव्यमितीदमारभ्यते ; आख्यायिका तु सुखावबोधार्था । मटचीहतेषु मटच्यः अशनयः ताभिर्हतेषु नाशितेषु कुरुषु कुरुसस्येष्वित्यर्थः । ततो दुर्भिक्षे जाते आटिक्या अनुपजातपयोधरादिस्त्रीव्यञ्जनया सह जायया उषस्तिर्ह नामतः, चक्रस्यापत्यं चाक्रायणः ; इभो हस्ती तमर्हतीति इभ्यः ईश्वरः, हस्त्यारोहो वा, तस्य ग्रामः इभ्यग्रामः तस्मिन् ; प्रद्राणकः अन्नालाभात् , ‘द्रा कुत्सायां गतौ’, कुत्सितां गतिं गतः, अन्त्यावस्थां प्राप्त इत्यर्थः ; उवास उषितवान् कस्यचिद्गृहमाश्रित्य ॥

अथोद्गीथाक्षरोपासनस्यानेकधोक्तत्वाद्वक्तव्यानवशेषात्प्रपाठकपरिसमाप्तिरेव युक्तेत्याशङ्क्याऽऽह –

उद्गीथेति ।

इदमा खण्डान्तरं परामृश्यते । प्रस्तावाद्युपासनं विवक्षितं चेत्तदेवोच्यतां किमनया कथयेत्याशङ्क्याऽऽह –

आख्यायिका त्विति ।

मटच्यो मर्दनहेतवोऽशनयः पाषाणवृष्टयो वा । ततः सस्यनाशादित्येतत् । सर्वतः स्वैरसञ्चारेऽपि न व्यभिचारशङ्केति दर्शयितुमाटिक्येति विशेषणम् । प्रद्राणकपदस्य क्रियापदेन सम्बन्धः । कुत्सितगतिप्राप्तौ हेतुरन्नालाभादिति ।

प्रद्राणकशब्दार्थं धातूपन्यासद्वारा कथयति –

द्रा कुत्सायामिति ॥ १ ॥