छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःदशमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
स हेभ्यं कुल्माषान्खादन्तं बिभिक्षे तꣳ होवाच । नेतोऽन्ये विद्यन्ते यच्च ये म इम उपनिहिता इति ॥ २ ॥
सः अन्नार्थमटन् इभ्यं कुल्माषान् कुत्सितान्माषान् खादन्तं भक्षयन्तं यदृच्छयोपलभ्य बिभिक्षे याचितवान् । तम् उषस्तिं ह उवाच इभ्यः — न इतः, अस्मान्मया भक्ष्यमाणादुच्छिष्टराशेः कुल्माषा अन्ये न विद्यन्ते ; यच्च ये राशौ मे मम उपनिहिताः प्रक्षिप्ताः इमे भाजने, किं करोमि ; इत्युक्तः प्रत्युवाच उषस्तिः —

यदृच्छया सहसेत्यर्थः । नेत इति वाक्योपादानं तद्व्याकरोति –

अस्मादिति ।

यदित्यव्ययं बहुवचनान्तम् । उपनिहिताः कुल्माषा इति शेषः । एतेषां खल्विमे भाजने प्रक्षिप्ता इति योजना ॥ २ ॥