छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःदशमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
न स्विदेतेऽप्युच्छिष्टा इति न वा अजीविष्यमिमानखादन्निति होवाच कामो म उदपानमिति ॥ ४ ॥
किं न स्विदेते कुल्माषा अप्युच्छिष्टाः, इत्युक्तः आह उषस्तिः — न वै अजीविष्यं नैव जीविष्यामि इमान् कुल्माषान् अखादन् अभक्षयन् इति होवाच । कामः इच्छातः मे मम उदकपानं लभ्यत इत्यर्थः । अतश्चैतामवस्थां प्राप्तस्य विद्याधर्मयशोवतः स्वात्मपरोपकारसमर्थस्यैतदपि कर्म कुर्वतो न अघस्पर्श इत्यभिप्रायः । तस्यापि जीवितं प्रति उपायान्तरेऽजुगुप्सिते सति जुगुप्सितमेतत्कर्म दोषाय ; ज्ञानावलेपेन कुर्वतो नरकपातः स्यादेवेत्यभिप्रायः, प्रद्राणकशब्दश्रवणात् ॥

किं प्रत्युवाचेत्याकाङ्क्षापूर्वकमाह –

किमित्यादिना ।

अनुपानाभावेऽपि तुल्यं जीवनराहित्यमित्याशङ्क्याऽऽह –

काम इति ।

अन्योच्छिष्टकुल्माषभक्षणमृषेर्वदन्त्याः श्रुतेस्तात्पर्यमाह –

अतश्चेति ।

चाक्रायणस्य विदुषोऽभक्ष्यभक्षणदर्शनादिति यावत् । एतामवस्थां प्राप्तस्य जीवितसन्देहमापन्नस्येत्यर्थः । विद्याधर्मयशोवतो ज्ञानादिप्रयुक्तख्यातिं प्रपन्नस्येत्येतत् । स्वात्मोपकारे परोपकारे च सामर्थ्यं निग्रहानुग्रहशक्तिमत्त्वम् । एतत्कर्म जीवनमात्रकारणं कुत्सितं चेष्टितमित्यर्थः ।

उच्छिष्टोदकपानप्रतिषेधश्रुतेरभिप्रायमाह –

तस्यापीति ।

एतत्कर्मेत्यभक्ष्यभक्षणोक्तिः ।

ननु ज्ञानिनो यथेष्टचेष्टाऽत्रानुज्ञायते । मैवम् । सर्वान्नानुमतिश्चेत्यादिन्यायविरोधादित्याह –

ज्ञानेति ।

तस्मिन्नभिप्राये लिङ्गं दर्शयति –

प्रद्राणकेति ।

चाक्रायणे प्रद्राणकशब्दप्रयोगात्परमापदमापन्नः सन्कुल्माषानुच्छिष्टान्भक्षितवानिति प्रतिभाति । तथा च ज्ञानिनो यथेष्टाचारे प्रमाणाभावादनेकप्रमाणविरोधाच्च नासावत्र विवक्षित इत्यर्थः ॥ ४ ॥