मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायः
दशमः खण्डः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (छान्दोग्य)
स ह खादित्वातिशेषाञ्जायाया आजहार साग्र एव सुभिक्षा बभूव तान्प्रतिगृह्य निदधौ ॥ ५ ॥
तांश्च स खादित्वा अतिशेषान् अतिशिष्टान् जायायै कारुण्यादाजहार ; सा आटिकी अग्रे एव कुल्माषप्राप्तेः सुभिक्षा शोभनभिक्षा, लब्धान्नेत्येतत् , बभूव संवृत्ता ; तथापि स्त्रीस्वाभाव्यादनवज्ञाय तान्कुल्माषान् पत्युर्हस्तात्प्रतिगृह्य निदधौ निक्षिप्तवती ॥
स्त्रीस्वाभाव्यं पत्युराज्ञाकरणम् , सङ्ग्रहशीलत्वं वा । अत एवाग्रे दृश्यते ते ॥ ५ ॥