छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःदशमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
स ह प्रातः सञ्जिहान उवाच यद्बतान्नस्य लभेमहि लभेमहि धनमात्राꣳ राजासौ यक्ष्यते स मा सर्वैरार्त्विज्यैर्वृणीतेति ॥ ६ ॥
स तस्याः कर्म जानन् प्रातः उषःकाले सञ्जिहानः शयनं निद्रां वा परित्यजन् उवाच पत्न्याः शृण्वन्त्याः — यत् यदि बतेति खिद्यमानः अन्नस्य स्तोकं लभेमहि, तद्भुक्त्वान्नं समर्थो गत्वा लभेमहि धनमात्रां धनस्याल्पम् ; ततः अस्माकं जीवनं भविष्यतीति । धनलाभे च कारणमाह — राजासौ नातिदूरे स्थाने यक्ष्यते ; यजमानत्वात्तस्य आत्मनेपदम् ; स च राजा मा मां पात्रमुपलभ्य सर्वैरार्त्विज्यैः ऋत्विक्कर्मभिः ऋत्विक्कर्मप्रयोजनायेत्यर्थः वृणीतेति ॥

तस्याः कर्म कुल्माषाणां परिरक्षणम् , यक्ष्यतीति कस्मान्नोक्तं तत्राऽऽह –

यजमानत्वादिति ।

राज्ञो यजमानत्वद्यागफलस्याऽऽत्मगामित्वाद्यक्ष्यत इत्यात्मनेपदं प्रयुक्तमित्यर्थः ।

अन्येषामुपद्रष्टृत्वसम्भवे कुतस्त्वामेव राजा मानयिष्यतीत्याशङ्क्याऽऽह –

स चेति ॥ ६ ॥