छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःदशमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तं जायोवाच हन्त पत इम एव कुल्माषा इति तान्खादित्वामुं यज्ञं विततमेयाय ॥ ७ ॥
एवमुक्तवन्तं जायोवाच — हन्त गृहाण हे पते इमे एव ये मद्धस्ते विनिक्षिप्तास्त्वया कुल्माषा इति । तान्खादित्वा अमुं यज्ञं राज्ञो विततं विस्तारितमृत्विग्भिः एयाय ॥

हन्तेत्यन्नलेशलाभश्चेदेवं धनलब्धिद्वारा जीवनहेतुरित्यर्थः ॥ ७ ॥