छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःदशमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तत्रोद्गातॄनास्तावे स्तोष्यमाणानुपोपविवेश स ह प्रस्तोतारमुवाच ॥ ८ ॥
तत्र च गत्वा, उद्गातॄन् उद्गातृपुरुषानागत्य, आ स्तुवन्त्यस्मिन्निति आस्तावः तस्मिन्नास्तावे स्तोष्यमाणान् उपोपविवेश समीपे उपविष्टस्तेषामित्यर्थः । उपविश्य च स ह प्रस्तोतारमुवाच ॥

राज्ञो यज्ञस्तत्रेत्युच्यते । उद्गातुरेकत्वे कुतो बहूक्तिरित्याशङ्क्याऽह –

उद्गातृपुरुषानिति ।

स्तुवन्त्यस्मिन्निति सप्तम्या सम्वाददेशो वा निर्दिश्यते ॥ ८ ॥