किमर्थमामन्त्रणं तदाह –
अभिमुखीकरणायेति ।
विदुषः समीपे देवतामविद्वान्प्रस्तोष्यसि चेन्मूर्धा ते विपतिष्यतीत्यग्रे सम्बन्धः ।
नन्वविद्वान्निन्दाया विवक्षितत्वाद्विद्वत्समीपवचनमकिञ्चित्करमिति चेन्नात्याह –
तत्परोक्षेऽपीति ।
तस्येत्यवद्वान्प्रस्तोतोच्यते ।
मा भूत्कर्ममात्रविदां कर्मण्यधिकार इति चेन्नेत्याह –
तच्चेति ।
तेनोभौ कुरुत इत्यादिश्रुताविति शेषः ।
अविदुषामपि कर्माधिकारे हेत्वन्तरमाह –
दक्षिणेति ।
तदेव व्यतिरेकद्वारा स्फोरयति –
अनधिकारे चेति ।
तस्यैव समुच्चयफलत्वादित्यर्थः ।
ननु दक्षिणमार्गस्य वापीकूपतटाकादिस्मार्तकर्मप्रयुक्तत्वाद्वैदिके कर्मणि विद्वानेवाधिक्रियते नेत्याह –
न चेति ।
यज्ञेन दानेन लोकाञ्जयन्तीति वैदिककर्मनिष्ठानामज्ञानामेव दक्षिणमार्गश्रवणादिति हेतुमाह –
यज्ञेनेति ।
इतश्चाविदुषां विद्वत्समीपे कर्माधिकारो नास्तीत्याह –
तथोक्तस्येति ।
देवताविज्ञानशून्यस्य ते मूर्धा विपतिष्यतीत्यनेन प्रकारेण मयोक्तस्य मूर्धा व्यपतिष्यदिति विशेषश्रवणाद्विद्वत्समीपे तदनुज्ञामन्तरेण कर्म कुर्वतोऽपराधित्वात्तस्य कर्मण्यनधिकार एवेत्यर्थः ।
विद्वदसमीपे पुनरविदुषोऽपि कर्मण्यधिकारोऽस्तीत्याह –
न सर्वत्रेति ।
अग्निहोत्रादौ श्रौते कर्मणि स्मार्तेषु च वापीकूपतटाकादिकर्मस्वध्ययनजपादिषु च विद्वत्सन्निधिमन्तरेणापि सर्वस्मिन्काले कर्ममात्रविदो नाधिकारोऽस्तीत्यशक्यं वक्तुमित्यर्थः ।
तत्र हेतुमाह –
अनुज्ञेति ।
भगवन्तं वा अहं विविदिषाणीत्यादिना राज्ञा स्वकीयकर्मनिर्वर्तने प्रार्थनादर्शनादेत एव मया समतिसृष्टाः स्तुवतामिति चानुज्ञोपलम्भादस्त्येवाविदुषामपि कर्मण्यधिकार इत्यर्थः ।
उक्तमर्थमुपसंहरति –
कर्ममात्रेति ।
विद्वत्समीपे तदनुज्ञामलब्ध्वा नास्ति कर्मानुष्ठानमित्येतन्निगमयितुमितिशब्दः ।
मूर्धा ते विपतिष्यतीत्येतदन्तं प्रस्तोतृविषयं वाक्यं व्याख्यातमित्यनुवदति –
मूर्धेति ॥ ९ ॥