छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःदशमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति ॥ ९ ॥
हे प्रस्तोतः इत्यामन्त्र्य अभिमुखीकरणाय, या देवता प्रस्तावं प्रस्तावभक्तिम् अनुगता अन्वायत्ता, तां चेत् देवतां प्रस्तावभक्तेः अविद्वान्सन् प्रस्तोष्यसि, विदुषो मम समीपे — तत्परोक्षेऽपि चेत् विपतेत्तस्य मूर्धा, कर्ममात्रविदामनधिकार एव कर्मणि स्यात् ; तच्चानिष्टम् , अविदुषामपि कर्मदर्शनात् , दक्षिणमार्गश्रुतेश्च ; अनधिकारे च अविदुषामुत्तर एवैको मार्गः श्रूयेत ; न च स्मार्तकर्मनिमित्त एव दक्षिणः पन्थाः, ‘यज्ञेन दानेन’ (बृ. उ. ६ । २ । १६) इत्यादिश्रुतेः ; ‘तथोक्तस्य मया’ (छा. उ. १ । ११ । ५), (छा. उ. १ । ११ । ७), (छा. उ. १ । ११ । ९) इति च विशेषणाद्विद्वत्समक्षमेव कर्मण्यनधिकारः, न सर्वत्राग्निहोत्रस्मार्तकर्माध्ययनादिषु च ; अनुज्ञायास्तत्र तत्र दर्शनात् , कर्ममात्रविदामप्यधिकारः सिद्धः कर्मणीति — मूर्धा ते विपतिष्यतीति ॥

किमर्थमामन्त्रणं तदाह –

अभिमुखीकरणायेति ।

विदुषः समीपे देवतामविद्वान्प्रस्तोष्यसि चेन्मूर्धा ते विपतिष्यतीत्यग्रे सम्बन्धः ।

नन्वविद्वान्निन्दाया विवक्षितत्वाद्विद्वत्समीपवचनमकिञ्चित्करमिति चेन्नात्याह –

तत्परोक्षेऽपीति ।

तस्येत्यवद्वान्प्रस्तोतोच्यते ।

मा भूत्कर्ममात्रविदां कर्मण्यधिकार इति चेन्नेत्याह –

तच्चेति ।

तेनोभौ कुरुत इत्यादिश्रुताविति शेषः ।

अविदुषामपि कर्माधिकारे हेत्वन्तरमाह –

दक्षिणेति ।

तदेव व्यतिरेकद्वारा स्फोरयति –

अनधिकारे चेति ।

तस्यैव समुच्चयफलत्वादित्यर्थः ।

ननु दक्षिणमार्गस्य वापीकूपतटाकादिस्मार्तकर्मप्रयुक्तत्वाद्वैदिके कर्मणि विद्वानेवाधिक्रियते नेत्याह –

न चेति ।

यज्ञेन दानेन लोकाञ्जयन्तीति वैदिककर्मनिष्ठानामज्ञानामेव दक्षिणमार्गश्रवणादिति हेतुमाह –

यज्ञेनेति ।

इतश्चाविदुषां विद्वत्समीपे कर्माधिकारो नास्तीत्याह –

तथोक्तस्येति ।

देवताविज्ञानशून्यस्य ते मूर्धा विपतिष्यतीत्यनेन प्रकारेण मयोक्तस्य मूर्धा व्यपतिष्यदिति विशेषश्रवणाद्विद्वत्समीपे तदनुज्ञामन्तरेण कर्म कुर्वतोऽपराधित्वात्तस्य कर्मण्यनधिकार एवेत्यर्थः ।

विद्वदसमीपे पुनरविदुषोऽपि कर्मण्यधिकारोऽस्तीत्याह –

न सर्वत्रेति ।

अग्निहोत्रादौ श्रौते कर्मणि स्मार्तेषु च वापीकूपतटाकादिकर्मस्वध्ययनजपादिषु च विद्वत्सन्निधिमन्तरेणापि सर्वस्मिन्काले कर्ममात्रविदो नाधिकारोऽस्तीत्यशक्यं वक्तुमित्यर्थः ।

तत्र हेतुमाह –

अनुज्ञेति ।

भगवन्तं वा अहं विविदिषाणीत्यादिना राज्ञा स्वकीयकर्मनिर्वर्तने प्रार्थनादर्शनादेत एव मया समतिसृष्टाः स्तुवतामिति चानुज्ञोपलम्भादस्त्येवाविदुषामपि कर्मण्यधिकार इत्यर्थः ।

उक्तमर्थमुपसंहरति –

कर्ममात्रेति ।

विद्वत्समीपे तदनुज्ञामलब्ध्वा नास्ति कर्मानुष्ठानमित्येतन्निगमयितुमितिशब्दः ।

मूर्धा ते विपतिष्यतीत्येतदन्तं प्रस्तोतृविषयं वाक्यं व्याख्यातमित्यनुवदति –

मूर्धेति ॥ ९ ॥