छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःएकादशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अथ हैनं यजमान उवाच भगवन्तं वा अहं विविदिषाणीत्युषस्तिरस्मि चाक्रायण इति होवाच ॥ १ ॥
अथ अनन्तरं ह एनम् उषस्तिं यजमानः राजा उवाच भगवन्तं पूजावन्तम् वै अहं विविदिषाणि वेदितुमिच्छामि ; इत्युक्तः उषस्तिः अस्मि चाक्रायणः तवापि श्रोत्रपथमागतो यदि — इति ह उवाच उक्तवान् ॥

अथ हैनमित्यादि व्याकरोति –

अथेति ।

प्रस्तोतृप्रभृतीनां तूष्णीम्भावादिति शेषः ॥ १ ॥