छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःएकादशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
स होवाच भगवन्तं वा अहमेभिः सर्वैरार्त्विज्यैः पर्यैषिषं भगवतो वा अहमवित्त्यान्यानवृषि ॥ २ ॥
स ह यजमानः उवाच — सत्यमेवमहं भगवन्तं बहुगुणमश्रौषम् , सर्वैश्च ऋत्विक्कर्मभिः आर्त्विज्यैः पर्यैषिषं पर्येषणं कृतवानस्मि ; अन्विष्य भगवतो वा अहम् अवित्त्या अलाभेन अन्यानिमान् अवृषि वृतवानस्मि ॥

चाक्रायणस्य वचनमङ्गीकरोति –

सत्यमिति ।

अङ्गीकारमेव स्फोरयति –

एवमिति ।

आर्त्विज्यैरित्यस्य व्याख्यानमृत्विक्कर्मभिरिति । तदर्थमिति यावत् ।

यदि मामार्त्विज्यार्थमनुसंहितवानसि किमितीमानन्यान्वृतवानित्याशङ्क्याऽऽह –

अन्विष्येति ॥ २ ॥