छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःएकादशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
भगवाꣳस्त्वेव मे सर्वैरार्त्विज्यैरिति तथेत्यथ तर्ह्येत एव समतिसृष्टाः स्तुवतां यावत्त्वेभ्यो धनं दद्यास्तावन्मम दद्या इति तथेति ह यजमान उवाच ॥ ३ ॥
अद्यापि भगवांस्त्वेव मे मम सर्वैरार्त्विज्यैः ऋत्विक्कर्मार्थम् अस्तु, इत्युक्तः तथेत्याह उषस्तिः ; किं तु अथैवं तर्हि एते एव त्वया पूर्वं वृताः मया समतिसृष्टाः मया संयक्प्रसन्नेनानुज्ञाताः सन्तः स्तुवताम् ; त्वया त्वेतत्कार्यम् — यावत्त्वेभ्यः प्रस्तोत्रादिभ्यः सर्वेभ्यो धनं दद्याः प्रयच्छसि, तावन्मम दद्याः ; इत्युक्तः तथेति ह यजमानः उवाच ॥

एवं गते किमधुना कर्तव्यमित्याशङ्क्याऽऽह –

अद्यापीति ।

चाक्रायणानुमतिं श्रुत्वा किमिदमिति व्याकुलितेषु प्रस्तोतृप्रभृतीषु ब्रूते –

किन्त्विति ।

उभयानुमत्यपेक्षयाऽनन्तर्यम् ।

ममालाभेनामीषां वृतत्वस्य निवृत्त्यवस्थायामित्याह –

तर्हीति ।

अनुज्ञाताः सन्तः प्रस्तोत्रादयः स्तुतिं कुर्वतामित्याह –

स्तुवतामिति ।

अस्त्वेवं त्वदर्थं पुनर्मया किं विधेयमित्याशङ्क्याऽऽह –

त्वया त्विति ॥ ३ ॥