छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःएकादशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
प्राण इति होवाच सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्तिप्राणमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रास्तोष्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति ॥ ५ ॥
पृष्टः प्राण इति ह उवाच ; युक्तं प्रस्तावस्य प्राणो देवतेति । कथम् ? सर्वाणि स्थावरजङ्गमानि भूतानि प्राणमेव अभिसंविशन्ति प्रलयकाले, प्राणमभिलक्षयित्वा प्राणात्मनैवोज्जिहते प्राणादेवोद्गच्छन्तीत्यर्थः उत्पत्तिकाले ; अतः सैषा देवता प्रस्तावमन्वायत्ता ; तां चेतविद्वान् त्वं प्रास्तोष्यः प्रस्तवनं प्रस्तावभक्तिं कृतवानसि यदि, मूर्धा शिरः ते व्यपतिष्यत् विपतितमभविष्यत् यथोक्तस्य मया तत्काले मूर्धा ते विपतिष्यतीति । अतस्त्वा साधु कृतम् ; मया निषिद्धः कर्मणो यदुपरमामकार्षिरित्यभिप्रायः ॥

प्रतिवचनमादाय प्रशब्दसामान्यं गृहीत्वा तात्पर्यमाह –

पृष्ट इति ।

कथमिह प्राणशब्दार्थो निश्चीयतामित्याशङ्क्य ’अत एव प्राण’ इति न्यायेनाऽऽह –

कथमिति ।

प्राणात्मनैव संविशन्तीति पूर्वेण सम्बन्धः । प्राणशब्दार्थस्य परमात्मत्वेन निर्णीतत्वमतःशब्दार्थः । चेच्छब्दार्थो यदीत्युक्तः । मया तथोक्तस्य मूर्धा ते विपतिष्यतीत्येवमुक्तस्य तव तत्काले स्वापराधावस्थायां मूर्धा व्यपतिष्यदेवेति योजना । प्रमादस्य महतस्त्वया परिहृतत्वादित्यतःशब्दार्थः ॥ ५ ॥