छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःएकादशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
आदित्य इति होवाच सर्वाणि ह वा इमानि भूतान्यादित्यमुच्चैः सन्तं गायन्ति सैषा देवतोद्गीथमन्वायत्ता तां चेतविद्वानुदगास्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति ॥ ७ ॥
पृष्टः आदित्य इति होवाच । सर्वाणि ह वा इमानि भूतानि आदित्यम् उच्चैः ऊर्ध्वं सन्तं गायन्ति शब्दयन्ति, स्तुवन्तीत्यभिप्रायः, उच्छब्दसामान्यात् , प्रशब्दसामान्यादिव प्राणः । अतः सैषा देवतेत्यादि पूर्ववत् ॥

यथा प्रशब्दसामान्यात्प्राणः प्रस्तावदेवतेत्युक्तं तथाऽऽदित्योद्गीथयोरुच्छब्दसामान्यादुद्गीथदेवताऽऽदित्य इत्याह –

उच्छब्देति ।

उक्तसामान्यपरामर्शार्थोऽतः शब्दः ॥ ६ - ७ ॥