छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःद्वादशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अथातः शौव उद्गीथस्तद्ध बको दाल्भ्यो ग्लावो वा मैत्रेयः स्वाध्यायमुद्वव्राज ॥ १ ॥
अतीते खण्डेऽन्नाप्राप्तिनिमित्ता कष्टावस्थोक्ता उच्छिष्टोच्छिष्टपर्युषितभक्षणलक्षणा ; सा मा भूदित्यन्नलाभाय अथ अनन्तरं शौवः श्वभिर्दृष्टः उद्गीथः उद्गानं साम अतः प्रस्तूयते । तत् तत्र ह किल बको नामतः, दल्भस्यापत्यं दाल्भ्यः ; ग्लावो वा नामतः, मित्रायाश्चापत्यं मैत्रेयः ; वाशब्दश्चार्थे ; द्व्यामुष्यायणो ह्यसौ ; वस्तुविषये क्रियास्विव विकल्पानुपपत्तेः ; द्विनामा द्विगोत्र इत्यादि हि स्मृतिः ; दृश्यते च उभयतः पिण्डभाक्त्वम् ; उद्गीथे बद्धचित्तत्वात् ऋषावनादराद्वा । वा - शब्दः स्वाध्यायार्थः । स्वाध्यायं कर्तुं ग्रामाद्बहिः उद्वव्राज उद्गतवान्विविक्तदेशस्थोदकाभ्याशम् । ‘उद वव्राज’ ‘प्रतिपालयाञ्चकार’ (छा. उ. १ । १२ । ३) इति च एकवचनाल्लिङ्गात् एकोऽसौ ऋषिः । श्वोद्गीथकालप्रतिपालनात् ऋषेः स्वाध्यायकरणमन्नकामनयेति लक्ष्यत इत्यभिप्रायतः ॥

पूर्वोत्तरखण्डयोः सङ्गतिं दर्शयन्नुपासनान्तरं प्रस्तौति –

अतीत इति ।

अन्नलाभस्यापेक्षितत्वमतःशब्दार्थः ।

प्रकारान्तरेणोद्गीथोपासनमन्नकामस्य प्रस्तुत्य प्रतिपत्तिसौकर्यार्थमाख्यायिकामादत्ते –

तत्तत्रेति ।

न केवलं दल्भस्यापत्यं किन्तु मित्रायाश्चेति चार्थः । न च सा दल्भस्य पत्नीति युक्तम् । तथा सति मैत्रेयपदस्य वैयर्थ्यात् । पत्न्यन्तरापत्यत्वव्यावृत्त्यर्थमिति चेन्न । प्रयोजनाभावात् ।

नन्वत्र वाशब्दाद्द्वावृषी विवक्षिताविति चेन्नेत्याह –

वाशब्द इति ।

कथं पुनर्दल्भ्यस्यापत्यं बकस्तदभार्याया मित्रायाश्चापत्यं भवितुमुत्सहते तत्राऽऽह –

द्व्यामुष्यायणो हीति ।

चैकितायनो दाल्भ्य इत्यत्रोक्तमेतदिति सूचयितुं हिशब्दः ।

उदितानुदितहोमवत्केषाञ्चिद्दृष्ट्या बकोऽसावन्येषां ग्लाव इत्येकस्मिन्नपि विकल्पो भविष्यति नेत्याह –

वस्तुविषय इति ।

कथं पुनर्विना मानमेकस्यैव द्विनामत्वाद्यङ्गीक्रियते तत्राऽऽह –

द्विनामेति ।

इत्यादिवाक्यं स्मृतिरूपं धर्मशास्त्रे प्रसिद्धमित्यर्थः ।

द्विगोत्रत्वमेकस्य लोकेऽपि प्रसिद्धमित्याह –

दृश्यते चेति ।

यतः सुतो जायते येन चायं धर्मतो गृह्यते तयोरुभयोरित्याह –

उभय इति ।

’उभयोरप्यसावृक्थी पिण्डदाता च धर्मतः’ इति स्मरन्तीत्यर्थः ।

दाल्भ्यादन्यो मैत्रेय इत्यङ्गीकृत्याऽऽह –

उद्गीथ इति ।

तदुपास्तौ तात्पर्यमृषावनादरे हेतुः । तस्मादृषित्रयमृषिद्वयं वा विवक्षितमित्यर्थः । पक्षान्तरद्योतनार्थो वाशब्दः ।

श्रौतो वाशब्दस्तर्हि किमर्थमित्याशङ्क्य पाठादन्यत्र तस्य फलमित्याह –

वाशब्द इति ।

मैत्रेयान्तं वाक्यं व्याख्याय स्वाध्यायमित्यादि व्याचष्टे –

स्वाध्यायमिति ।

यदुक्तमृषिरेको बकादिशब्दैरुच्यत इति तत्र लिङ्गमाह –

उद्वव्राजेति ।

शुनामुद्गीथः श्वोद्गीथस्तत्कालस्य प्रतिपालनं प्रतीक्षणमृषेर्दृश्यते तेषां चोद्गानमन्नार्थं तदृषेरपि स्वाध्यायकरणं तदर्थमित्याह –

श्वोद्गीथेति ।

यथोक्तार्थवाचिशब्दाभावेऽपि सामर्थ्यादयमर्थो भातीत्याह –

अभिप्राय इति ॥ १ ॥