छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःद्वादशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तस्मै श्वा श्वेतः प्रादुर्बभूव तमन्ये श्वान उपसमेत्योचुरन्नं नो भगवानागायत्वशनायामवा इति ॥ २ ॥
स्वाध्यायेन तोषिता देवता ऋषिर्वा श्वरूपं गृहीत्वा श्वा श्वेतः सन् तस्मै ऋषये तदनुग्रहार्थं प्रादुर्बभूव प्रादुश्चकार । तमन्ये शुक्लं श्वानं क्षुल्लकाः श्वानः उपसमेत्य ऊचुः उक्तवन्तः — अन्नं नः अस्मभ्यं भगवान् आगायतु आगानेन निष्पादयत्वित्यर्थः । मुख्यप्राणवागादयो वा प्राणमन्वन्नभुजः स्वाध्यायपरितोषिताः सन्तः अनुगृह्णीयुरेनं श्वरूपमादायेति युक्तमेवं प्रतिपत्तुम् । अशनायाम वै बुभुक्षिताः स्मो वै इति ॥

तस्मा इत्यादि व्याचष्टे –

स्वाध्यायेनेति ।

क्षुल्लकाः क्षुद्रकाः शिशव इति यावत् । श्वेतः श्वा कश्चिदृषिर्देवता वा ।

अन्ये च श्वानो देवता ऋषयो वेत्युक्तम् सम्प्रति विवक्षितं पक्षमाह –

मुख्येति ।

तमूचुरिति सम्बन्धः ।

तानेव विशिनष्टि –

प्राणमन्विति ।

मुख्यप्राणसहितवागादिग्रहे हेतुमाह –

स्वाध्यायेति ।

अन्यथा वाक्यमनिर्धारितार्थं स्यादिति भावः ।

किमित्यन्नं भवद्भ्यो मया सम्पाद्यते न हि भवतामभोक्तॄणां तेन कृत्यमस्तीत्याशङ्क्य त्वन्निष्ठचेतनद्वारेणास्माकमपि भोगसिद्धेर्मैवमित्याह –

अशनायाम वा इत्यादिना ॥ २ ॥