छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःद्वादशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तान्होवाचेहैव मा प्रातरुपसमीयातेति तद्ध बको दाल्भ्यो ग्लावो वा मैत्रेयः प्रतिपालयाञ्चकार ॥ ३ ॥
एवमुक्ते श्वा श्वेत उवाच तान् क्षुल्लकान् शुनः, इहैव अस्मिन्नेव देशे मा मां प्रातः प्रातःकाले उपसमीयातेति । दैर्घ्यं छान्दसम् , समीयातेति प्रमादपाठो वा । प्रातःकालकरणं तत्काल एव कर्तव्यार्थम् , अन्नदस्य वा सवितुरपराह्णेऽनाभिमुख्यात् । तत् तत्रैव ह बको दाल्भ्यो ग्लावो वा मैत्रेय ऋषिः प्रतिपालयाञ्चकार प्रतीक्षणं कृतवानित्यर्थः ॥

किमिति प्रातःकालप्रतीक्षणं कृतं तत्राऽह –

प्रातरिति ।

उद्गानस्येति शेषः ।

प्रातःकालप्रतीक्षणकरणे कारणान्तरमाह –

अन्नस्येति ।

तस्य वृष्टिद्वाराऽन्नदत्वं द्रष्टव्यम् ।

तद्धेत्यादि व्याचष्टे –

तत्तत्रेति ।

ऋषेरन्नकामत्वमितोऽवगतम् ॥ ३ ॥