छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःत्रयोदशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
भक्तिविषयोपासनं सामावयवसम्बद्धमित्यतः सामावयवान्तरस्तोभाक्षरविषयाण्युपासनान्तराणि संहतान्युपदिश्यन्तेऽनन्तरम् , तेषां सामावयवसम्बद्धत्वाविशेषात् —

ननु भक्तिसम्बन्धानामुपासनानां जातत्वात्समस्तस्येत्यादिवक्तव्ये किमनन्तरखण्डेनेत्याशङ्क्याऽह –

भक्तीति ।

इत्यतोऽस्मात्प्रसङ्गादिति यावत् । ऋगक्षराणि गीयन्ते । तद्व्यतिरिक्तानि वाच्यशून्यानि गीतिसिद्ध्यर्थानि स्तोभाक्षराणि परिभाष्यन्ते । तानि च कर्मापूर्वनिर्वृत्तिद्वारेण फलवत्त्वादुपास्यानि तदुपास्तिविधिपरमुत्तरं वाक्यमित्यर्थः ।

वक्ष्यमाणोपासनानां प्रत्येकं स्वातन्त्र्यं नास्तीत्याह –

संहतानीति ।

तेषामनन्तरमुपदेशे हेतुमाह –

सामावयवेति ।