न चैवंविधस्स्तोभो नास्तीति वाच्यमित्याह –
रथन्तर इति ।
तथाऽपि कथं पृथिवीदृष्ट्या यथोक्तस्तोभस्योपास्यत्वं तदाह –
इयमिति ।
इयं वै रथन्तरमित्यत्र पृथिव्या रथन्तरत्वं श्रुतं, प्रस्तुतश्च स्तोभो रथन्तरेऽस्तीत्युक्तं ; तथा च यथोक्तात्सम्बन्धरूपात्सादृश्यात्पृथिवीदृष्ट्या हाउकार उपास्य इत्यर्थः ।
कथं पृनर्वायुदृष्ट्या हाइकारस्योपास्यत्वं तत्राऽऽह –
वाय्वप्सम्बन्धश्चेति ।
हाइकारो वामदेव्ये साम्नि प्रसिद्धः । तस्य च वायोरपां च सम्बन्धो योनिर्मैथुनेच्छावतीनामपां वायुः पृष्टेन्यवर्तत ततो वामदेव्यं सामाभवदिति श्रुतेः । तस्माद्यथोक्ताद्वामदेव्यसामसम्बन्धसामान्याद्वायुदृष्ट्या हाइकारमुपासीतेत्यर्थः ।
कथमथकारस्य चन्द्रदृष्ट्योपासनं तत्राऽह –
अन्ने हीति ।
तथा च थकारसामान्याद्यथोक्तोपास्तिसिद्धिरिति शेषः ।
थकारवदकारसामान्याच्च चन्द्रदृष्ट्याऽथकारमुपासीतेत्याह –
थकारेति ।
अथकारे तावद्व्यक्त्योऽकारोऽन्नात्मनि चन्द्रमस्यपि सोऽस्तीति तद्युक्तं यथोक्तमुपासनमित्यर्थः । प्रथममप्रत्यक्षः पश्चात्प्रत्यक्षीभवन्निति शेषः ।
तत्सामान्यं इहेति व्यपदिश्यमानत्वं, तस्मादात्मदृष्टिरिहेति स्तोभे कर्तव्येत्याह –
तत्सामान्यादिति ।
अग्निदृष्टिरीकाराख्ये स्तोभाक्षरे कर्तव्येत्यत्र हेतुमाह –
ईनिधनानीति ।
ईकारो निधायते येषु सामसु तान्याग्नेयानि प्रसिद्धानि । तथा च तेष्वग्निरीकारश्चेत्युभयोर्भावादस्मात्सादृश्यादीकारमग्निदृष्ट्योपासीतेत्यर्थः ॥ १ ॥