छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःत्रयोदशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
आदित्य ऊकारो निहव एकारो विश्वेदेवा औहोयिकारः प्रजापतिर्हिङ्कारः प्राणः स्वरोऽन्नं या वाग्विराट् ॥ २ ॥
आदित्यः ऊकारः ; उच्चैरूर्ध्वं सन्तमादित्यं गायन्तीति ऊकारश्चायं स्तोभः ; आदित्यदैवत्ये साम्नि स्तोभ इति आदित्य ऊकारः । निहव इत्याह्वानम् ; एकारः स्तोभः ; एहीति च आह्वयन्तीति तत्सामान्यात् । विश्वेदेवा औहोयिकारः, वैश्वदेव्ये साम्नि स्तोभस्य दर्शनात् । प्रजापतिर्हिङ्कारः, आनिरुक्त्यात् , हिङ्कारस्य च अव्यक्तत्वात् । प्राणः स्वरः ; स्वर इति स्तोभः ; प्राणस्य च स्वरहेतुत्वसामान्यात् । अन्नं या या इति स्तोभः अन्नम् , अन्नेन हीदं यातीत्यतस्तत्सामान्यात् । वागिति स्तोभो विराट् अन्नं देवताविशेषो वा, वैराजे साम्नि स्तोभदर्शनात् ॥

ऊकारमादित्यदृष्ट्या कथमुपासीतेत्याशङ्क्याऽऽह –

उच्चैरिति ।

ऊकारादित्ययोर्विधान्तरेण सादृश्यमाह –

आदित्येति ।

एकारसामान्यान्निहवदृष्टिरेकारे स्तोभे कार्येत्याह –

निहव इत्यादि ।

औहोयिकारस्य विश्वेदेव दृष्ट्योपास्तौ हेतुमाह –

वैश्वदेव इति ।

प्रजापतिदृष्ट्या हिङ्कारोपास्यत्वे हेतुः –

आनिरुक्त्यादिति ।

नीलपीतादिरूपेण निरुक्त्यविषयत्वात्प्रजापतेरित्यर्थः । अव्यक्तत्वाद्रूपादिरहितत्वादित्यर्थः । प्राणस्य चेति चकारात्स्वरस्य चेत्यर्थः । स्वरहेतुत्वं तन्निर्वर्तकत्वेन तदात्मकत्वम् ।

अन्नं या इति वाक्यं व्याचष्टे –

या इति ।

अन्नदृष्टिर्या इति स्तोभे कर्तव्येत्यत्र हेतुमाह –

अन्नेति ।

विराड्दृष्टिर्वागिति स्तोभे कार्येत्यत्र हेतुमाह –

वैराज इति ॥ २ ॥