छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःत्रयोदशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अनिरुक्तस्त्रयोदशः स्तोभः सञ्चरो हुङ्कारः ॥ ३ ॥
अनिरुक्तः अव्यक्तत्वादिदं चेदं चेति निर्वक्तुं न शक्यत इत्यतः सञ्चरः विकल्प्यमानस्वरूप इत्यर्थः । कोऽसाविति, आह — त्रयोदशः स्तोभः हुङ्कारः । अव्यक्तो ह्ययम् ; अतोऽनिरुक्तविशेष एवोपास्य इत्यभिप्रायः ॥

अनिरुक्तः कारणात्मा । तस्यानिरुक्तत्वं साधयति –

अव्यक्तत्वादिति ।

स चानेकधा कर्यरूपेण सञ्चरतीति सञ्चरः । हुङ्कारोऽपि शाखाभेदेन विकल्प्यमानस्वरूपस्त्रयोदशश्चायं वावेत्यारभ्य गण्यमानस्ततश्च कारणदृष्ट्या हुङ्कारमुपासीतेत्यर्थः ।

उक्तमेवोपपादयति –

अव्यक्तो हीति ।

तत्र विकल्प्यमानत्वं हेतुः ॥ ३ ॥