छान्दोग्योपनिषद्भाष्यम्
तृतीयोऽध्यायःपञ्चदशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तस्य प्राची दिग्जुहूर्नाम सहमाना नाम दक्षिणा राज्ञी नाम प्रतीची सुभूता नामोदीची तासां वायुर्वत्सः स य एतमेवं वायुं दिशां वत्सं वेद न पुत्ररोदं रोदिति सोऽहमेतमेवं वायुं दिशां वत्सं वेद मा पुत्ररोदं रुदम् ॥ २ ॥
तस्यास्य प्राची दिक् प्राग्गतो भागः जुहूर्नाम जुह्वत्यस्यां दिशि कर्मिणः प्राङ्मुखाः सन्त इति जुहूर्नाम । सहमाना नाम सहन्तेऽस्यां पापकर्मफलानि यमपुर्यां प्राणिन इति सहमाना नाम दक्षिणा दिक् । तथा राज्ञी नाम प्रतीची पश्चिमा दिक् , राज्ञी राज्ञा वरुणेनाधिष्ठिता, सन्ध्यारागयोगाद्वा । सुभूता नाम भूतिमद्भिरीश्वरकुबेरादिभिरधिष्ठितत्वात् सुभूता नाम उदीची । तासां दिशां वायुः वत्सः, दिग्जत्वाद्वायोः, पुरोवात इत्यादिदर्शनात् । स यः कश्चित् पुत्रदीर्घजीवितार्थी एवं यथोक्तगुणं वायुं दिशां वत्सम् अमृतं वेद, स न पुत्ररोदं पुत्रनिमित्तं रोदनं न रोदिति, पुत्रो न म्रियत इत्यर्थः । यत एवं विशिष्टं कोशदिग्वत्सविषयं विज्ञानम् , अतः सोऽहं पुत्रजीवितार्थी एवमेतं वायुं दिशां वत्सं वेद जाने । अतः पुत्ररोदं मा रुदं पुत्रमरणनिमित्तं पुत्ररोदो मम मा भूदित्यर्थः ॥

कोशकोणत्वेनोक्तासु दिक्ष्ववान्तरविभागमाह –

तस्येत्यादिना ।

दिशां विशिष्टनामवतीनामनुचिन्तनीयत्वमुक्त्वा तत्सम्बन्धिनं वायुं तद्वत्सममरणधर्माणं चिन्तयेदित्याह –

तासामित्या दिना ।

पुरोवातादीत्यादिशब्दस्तथाविधलौकिकवैदिकप्रयोगसंग्रहार्थः ।

यथोक्तस्य विज्ञानस्य फलवत्त्वमिदानीं दर्शयति –

स य इति ।

यथोक्तगुणमित्यस्य प्रकटीकरणममृतमिति ।

सफलमुपासनमुपदिष्टमुपसंहरति –

यत इति ॥२॥