छान्दोग्योपनिषद्भाष्यम्
तृतीयोऽध्यायःपञ्चदशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अरिष्टं कोशं प्रपद्येऽमुनामुनामुना प्राणं प्रपद्येऽमुनामुनामुना भूः प्रपद्येऽमुनामुनामुना भुवः प्रपद्येऽमुनामुनामुना स्वः प्रपद्येऽमुनामुनामुना ॥ ३ ॥
अरिष्टम् अविनाशिनं कोशं यथोक्तं प्रपद्ये प्रपन्नोऽस्मि पुत्रायुषे । अमुनामुनामुनेति त्रिर्नाम गृह्णाति पुत्रस्य । तथा प्राणं प्रपद्येऽमुनामुनामुना, भूः प्रपद्येऽमुनामुनामुना, भुवः प्रपद्येऽमुनामुनामुना, स्वः प्रपद्येऽमुनामुनामुना, सर्वत्र प्रपद्ये इति त्रिर्नाम गृह्णाति पुनः पुनः ॥

दीर्घायुष्ट्वं पुत्रस्य कामयमानस्त्रैलोक्यात्मानं कोशाकारं परिकल्प्य तस्य चतस्रो दिशो विशिष्टनामवतीस्तासां स्त्रीत्वं तत्सम्बन्धेन वायुं तद्वत्सममरणधर्माणं चिन्तयेदिति प्रधानोपास्तिरुक्ता । सम्प्रति तदङ्गं जपं दर्शयति –

अरिष्टमित्या दिना ।

अमुना तेन पुत्रेण निमित्तीभूतेन दीर्घायुष्ट्वं निमित्तीकृत्येत्यर्थः । सर्वत्र सर्वेषु प्रपद्य इति क्रियापदमुपायं दर्शयितुं पुनरुपात्तं निमित्तनिवेदनार्थं च पुनः पुनर्मन्त्रेषु पुत्रस्य त्रिर्नाम गृह्णातीति योजना ॥३॥