छान्दोग्योपनिषद्भाष्यम्
तृतीयोऽध्यायःषोडशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
पुरुषो वाव यज्ञस्तस्य यानि चतुर्विंशति वर्षाणि तत्प्रातःसवनं चतुर्विंशत्यक्षरा गायत्री गायत्रं प्रातःसवनं तदस्य वसवोऽन्वायत्ताः प्राणा वाव वसव एते हीदं सर्वं वासयन्ति ॥ १ ॥
पुरुषः जीवनविशिष्टः कार्यकरणसङ्घातः यथाप्रसिद्ध एव ; वावशब्दोऽवधारणार्थः ; पुरुष एव यज्ञ इत्यर्थः । तथा हि सामान्यैः सम्पादयति यज्ञत्वम् । कथम् ? तस्य पुरुषस्य यानि चतुर्विंशतिवर्षाण्यायुषः, तत्प्रातःसवनं पुरुषाख्यस्य यज्ञस्य । केन सामान्येनेति, आह — चतुर्विंशत्यक्षरा गायत्री छन्दः, गायत्रं गायत्रीछन्दस्कं हि विधियज्ञस्य प्रातःसवनम् ; अतः प्रातःसवनसम्पन्नेन चतुर्विंशतिवर्षायुषा युक्तः पुरुषः अतो विधियज्ञसादृश्यात् यज्ञः । तथोत्तरयोरप्यायुषोः सवनद्वयसम्पत्तिः त्रिष्टुब्जगत्यक्षरसङ्ख्यासामान्यतो वाच्या । किञ्च, तदस्य पुरुषयज्ञस्य प्रातःसवनं विधियज्ञस्येव वसवः देवा अन्वायत्ताः अनुगताः ; सवनदेवतात्वेन स्वामिन इत्यर्थः । पुरुषयज्ञेऽपि विधियज्ञ इव अग्न्यादयो वसवः देवाः प्राप्ता इत्यतो विशिनष्टि — प्राणा वाव वसवः वागादयो वायवश्च । एते हि यस्मात् इदं पुरुषादिप्राणिजातम् एते वासयन्ति । प्राणेषु हि देहे वसत्सु सर्वमिदं वसति, नान्यथा । इत्यतो वसनाद्वासनाच्च वसवः ॥

कथंभूतस्याऽऽत्मनो यज्ञत्वं सम्पाद्यते तत्राऽऽह –

पुरुष इति ।

अवधारणार्थं समर्थयते –

तथा हीति ।

यज्ञावयवसादृश्यात्पुरुषे यज्ञदृष्टिः कर्तव्येत्युक्तम् ।

कथं सादृश्याद्यज्ञसम्पादनमिति पृच्छति –

कथमिति ।

तत्र षोडशाधिकं वर्षशतं पुरुषस्याऽऽयुः फलभूतं तत्त्रेधा प्रविभज्य चतुर्विंशतिवर्षायुषि प्रातःसवनदृष्टिः कर्तव्येत्याह –

तस्येति ।

गायत्र्याश्छन्धसश्चतुर्विंशत्यक्षरत्वेऽपि कथं शब्दोक्ता प्रातःसवनदृष्टिरित्याशङ्क्याऽऽह –

गायत्रीति ।

विधितोऽनुष्ठीयमानस्य बाह्ययज्ञस्य प्रातःकालोपलक्षितं कर्म प्रातःसवनं तत्र स्तोत्रादि गायत्रच्छन्दस्कं “गायत्रं प्रातःसवनम्” (छा.उ. ३ । १६ । १) इति च श्रुतिरित्यर्थः ।

यथोक्ते पुरुषायुषि प्रातःसवने चतुर्विंशत्यक्षराणि फलितमाह –

अत इति ।

तथाऽपि कथं पुरुषायुषस्य यज्ञत्वं तदाह –

अत इति ।

अतःशब्दस्यैवार्थो विधियज्ञसादृश्यादिति । विधिनाऽनुष्ठीयमानो यज्ञो विधियज्ञस्तेन सादृश्यं पुरुषस्य प्रातःसवनसम्बन्धस्तस्मात्पुरुषो यज्ञ इत्यर्थः ।

यथा यथोक्ते पुरुषायुषि प्रातःसवनसम्पत्तिस्तथा वक्ष्यमाणयोरपि पुरुषायुषोर्माध्यन्दिनं सवनं तृतीयसवनमिति सवनद्वयसम्पत्तिर्द्रष्टव्येत्याह –

तथेति ।

चतुर्विंशतिवर्षमितपुरुषायुषिं प्रातःसवनमतः संख्यासामान्याद्वक्ष्यमाणपुरुषायुषोः सवनद्वयसम्पत्तौ किं कारणमित्याशङ्क्याऽऽह –

त्रिष्टुबिति ।

चतुश्चत्वारिंशदक्षरा त्रिष्टुप्प्रसिद्धा । त्रैष्टुभं च माध्यन्दिनं सवनम् । अष्टाचत्वारिंशदक्षरा जगती । जागतं च तृतीयसवनम् । अतः संख्यासामान्यादुत्तरयोः पुरुषायुषोः सवनद्वयसम्पत्तिर्युक्तेत्यर्थः ।

पुरुषस्य यज्ञत्वे विधियज्ञेन सह सादृश्यान्तरमाह –

किंचेति ।

प्रातःसवने वसूनां तद्देवतात्वेनान्वयात्तत्त्वमेव संक्षिपति –

सवनदेवतात्वेन स्वामिन इत्यर्थ इति ।

वसूनां सवनस्वामित्वमुभयत्र तुल्यमित्युक्ते प्रसिद्धान्वसून्पुरुषयज्ञेऽपि प्राप्तान्प्रत्युदस्यति –

पुरुषयज्ञेऽपीति ।

तेषु वसुशब्दप्रवृत्तिं साधयति –

ते हीति ।

निमित्तान्तरमाह –

प्राणेषु हीति ।

प्राणानां वसुत्वमुपपादितमुपसंहरति –

इत्यत इति ॥१॥