छान्दोग्योपनिषद्भाष्यम्
तृतीयोऽध्यायःषोडशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तं चेदेतस्मिन्वयसि किञ्चिदुपतपेत्स ब्रूयात्प्रा वसव इदं मे प्रातःसवनं माध्यंन्दिनꣳ सवनमनुसन्तनुतेति माहं प्राणानां वसूनां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो ह भवति ॥ २ ॥
तं चेत् यज्ञसम्पादिनम् एतस्मिन् प्रातःसवनसम्पन्ने वयसि किञ्चित् व्याध्यादि मरणशङ्काकारणम् उपतपेत् दुःखमुत्पादयेत् , स तदा यज्ञसम्पादी पुरुषः आत्मानं यज्ञं मन्यमानः ब्रूयात् जपेदित्यर्थः इमं मन्त्रम् — हे प्राणाः वसवः इदं मे प्रातःसवनं मम यज्ञस्य वर्तते, तत् माध्यन्दिनं सवनम् अनुसन्तनुतेति माध्यन्दिनेन सवनेन आयुषा सहितं एकीभूतं सन्ततं कुरुतेत्यर्थः । मा अहं यज्ञः युष्माकं प्राणानां वसूनां प्रातःसवनेशानां मध्ये विलोप्सीय विलुप्येय विच्छिद्येयेत्यर्थः । इतिशब्दो मन्त्रपरिसमाप्त्यर्थः । स तेन जपेन ध्यानेन च ततः तस्मादुपतापात् उत् एति उद्गच्छति । उद्गंय विमुक्तः सन् अगदो ह अनुपतापो भवत्येव ॥

सम्प्रति पुरुषयज्ञविद्याङ्गभूतमाशीर्वादप्रयोगं दर्शयति –

तं चेदिति ।

अनुसन्तनुतेत्यत्रानुपदमेकीभावे । मन्त्रजपस्य सानुबन्धित्वं विधियज्ञेन ॥२॥ समानं तस्य यानि चतुर्विंशतिवर्षाणीत्यादिनेति शेषः ।