छान्दोग्योपनिषद्भाष्यम्
तृतीयोऽध्यायःसप्तदशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
स यदशिशिषति यत्पिपासति यन्न रमते ता अस्य दीक्षाः ॥ १ ॥
स यदशिशिषतीत्यादियज्ञसामान्यनिर्देशः पुरुषस्य पूर्वेणैव सम्बध्यते । यदशिशिषति अशितुमिच्छति ; तथा पिपासति पातुमिच्छति ; यन्न रमते इष्टाद्यप्राप्तिनिमित्तम् ; यदेवंजातीयकं दुःखमनुभवति, ता अस्य दीक्षाः ; दुःखसामान्याद्विधियज्ञस्येव ॥

ननु पूर्वेणाऽऽशीर्वादप्रयोगेणोदाहरणेनैव समनन्तरग्रन्थस्य सम्बन्धो नोपलभ्यते तत्राऽऽह –

स यदिति ।

पूर्वेण तस्य यानि चनुविंशतिवर्षाणीत्यादिना सादृश्यनिर्देशेनेत्यर्थः । एवंजातीयकमशनायादिकृतमिति यावत् ।

अशिशिषादिषु दीक्षादृष्टौ हेतुमाह –

दुःखेति ॥१॥