छान्दोग्योपनिषद्भाष्यम्
तृतीयोऽध्यायःसप्तदशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अथ यदश्नाति यत्पिबति यद्रमते तदुपसदैरेति ॥ २ ॥
अथ यदश्नाति यत्पिबति यद्रमते रतिं च अनुभवति इष्टादिसंयोगात् , तत् उपसदैः समानतामेति । उपसदां च पयोव्रतत्वनिमित्तं सुखमस्ति । अल्पभोजनीयानि च अहान्यासन्नानि इति प्रश्वासः ; अतोऽशनादीनामुपसदां च सामान्यम् ॥

दीक्षावचनसादृश्यात्पुरुषस्य यज्ञत्वमुक्तमिदानीमुपसदुपेतत्वसादृश्यादपि तस्य यज्ञत्वं विज्ञेयमित्याह –

अथेति ।

अशनादिषु कथमुपसद्दृष्टिस्तत्राऽऽह –

उपसदां चेति ।

पयोव्रतत्वं पयोभक्षणयुक्तत्वम् । यज्ञे यान्यहाल्पभोजनीयानि प्रसिद्धानि तानि चोपसत्सु क्रियमाणान्याश्वासन्नानीति तासु प्रश्वासः स्वास्थ्यविशेषः । अशनादिषु च सोऽस्तीति प्रसिद्धमिति भावः । सुखनिमित्तत्वं क्लेशनिवृत्तिहेतुत्वं च सामान्यम् ॥२॥