छान्दोग्योपनिषद्भाष्यम्
तृतीयोऽध्यायःसप्तदशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
आदित्प्रत्नस्य रेतसः । उद्वयं तमसस्परि ज्योतिः पश्यन्त उत्तरꣳस्वः पश्यन्ति उत्तरं देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तममिति ज्योतिरुत्तममिति ॥ ७ ॥
आदित् इत्यत्र आकारस्यानुबन्धस्तकारः अनर्थक इच्छब्दश्च । प्रत्नस्य चिरन्तनस्य पुराणस्येत्यर्थः ; रेतसः कारणस्य बीजभूतस्य जगतः, सदाख्यस्य ज्योतिः प्रकाशं पश्यन्ति । आशब्द उत्सृष्टानुबन्धः पश्यन्तीत्यनेन सम्बध्यते ; किं तज्ज्योतिः पश्यन्ति ; वासरम् अहः अहरिव तत् सर्वतो व्याप्तं ब्रह्मणो ज्योतिः ; निवृत्तचक्षुषो ब्रह्मविदः ब्रह्मचर्यादिनिवृत्तिसाधनैः शुद्धान्तःकरणाः आ समन्ततः ज्योतिः पश्यन्तीत्यर्थः । परः परमिति लिङ्गव्यत्ययेन, ज्योतिष्परत्वात् , यत् इध्यते दीप्यते दिवि द्योतनवति परस्मिन्ब्रह्मणि वर्तमानम् येन ज्योतिषेद्धः सविता तपति चन्द्रमा भाति विद्युद्विद्योतते ग्रहतारागणा विभासन्ते । किं च, अन्यो मन्त्रदृगाह यथोक्तं ज्योतिः पश्यन् — उद्वयं तमसः अज्ञानलक्षणात् परि परस्तादिति शेषः ; तमसो वा अपनेतृ यज्ज्योतिः उत्तरम् — आदित्यस्थं परिपश्यन्तः वयम् उत् अगन्म इति व्यवहितेन सम्बन्धः ; तज्ज्योतिः स्वः स्वम् आत्मीयमस्मद्धृदि स्थितम् , आदित्यस्थं च तदेकं ज्योतिः ; यत् उत्तरम् उत्कृष्टतरमूर्ध्वतरं वा अपरं ज्योतिरपेक्ष्य, पश्यन्तः उदगन्म वयम् । कमुदगन्मेति, आह । देवं द्योतनवन्तं देवत्रा देवेषु सर्वेषु, सूर्यं रसानां रश्मीनां प्राणानां च जगतः ईरणात्सूर्यः तमुदगन्म गतवन्तः, ज्योतिरुत्तमं सर्वज्योतिर्भ्य उत्कृष्टतमम् अहो प्राप्ता वयमित्यर्थः । इदं तज्ज्योतिः, यत् ऋग्भ्यां स्तुतं यद्यजुस्त्रयेण प्रकाशितम् । द्विरभ्यासो यज्ञकल्पनापरिसमाप्त्यर्थः ॥

“आदित्प्रत्नस्य रेतसो ज्योतिः पश्यन्ति वासरम् । परो यदिध्यते दिवि” इति मन्त्रस्य प्रतीकग्रहणमादित्प्रत्नस्य रेतस इति, तत्पदच्छेदपूर्वकं व्याचष्टे –

आदित्यादिना ।

इच्छब्दश्चानर्थक इति पूर्वेण सम्बन्धः ।

किं तत्कारणमित्यपेक्षायां सदेव सोम्येदमित्यादिश्रुतिसिद्धं ब्रह्मेत्याह –

सदाख्यस्येति ।

आनन्दं ब्रह्मणो विद्वानितिवत्प्रत्नस्य ज्योतिरिति सम्बन्धो द्रष्टव्यः । उत्सृष्टानुबन्धो ध्वस्ततकारः स इति यावत् ।

ननु ब्रह्मस्वरूपभूतमेतज्ज्योतिर्नैव सर्वे पश्यन्तो दृश्यन्ते तत्राऽऽह –

निवृत्तचक्षुष इति ।

निवृत्तानि विमुखीकृतानि विषयेभ्यश्चक्षूंषि करणानि येषां ते तथा । अत एव ब्रह्मविदः, “कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्” (क.उ. २ । ४ । १) इति श्रुत्यन्तरम् ।

तत्रैवोपायान्तरं सूचयति –

ब्रह्मचर्यादीति ।

“स्मरणं कीर्तनं केलिः प्रेक्षणं गृह्यभाषणम् । सङ्कल्पोऽध्यवसायश्च क्रियानिवृत्तिरेव च ॥ एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः । विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम् ॥” (अ.पु. ३७२) [इत्युक्तं] ब्रह्मचर्यम् । आदिपदेनाहिंसाऽस्तेयादयो गृह्यन्ते । एतैर्निवृत्तिप्रधानैः साधनैः शुद्धमुद्दीपितमन्तःकरणं येषां ते तथा ।

व्यत्यये हेतुमाह –

ज्योतिष्परत्वादिति ।

यत्स्वमहिमप्रतिष्ठितं दीप्यते तत्परं ज्योतिरिति सम्बन्धः ।

दीप्यमानत्वं विवृणोति –

येनेति ।

मन्त्रान्तरमवतारयति –

किञ्चेति ।

इतश्च विद्यास्तुत्यर्थेति यावत् ।

किमाहेत्यपेक्षायां द्वितीयं मन्त्रमादत्ते –

उद्वयमिति ।

तं व्याकरोति –

तमस इत्यादिना ।

तस्यैव ज्योतिषः प्रभाने ज्योतिर्नान्यदस्तीत्यर्थः ।

देवत्वेन प्रत्यगात्मत्वमाह –

स्वरिति ।

तयोरेकत्वं “स यश्चायम्” (तै.उ. २ । ८ । ५) इत्यादिषु श्रुत्यन्तरसिद्धं दर्शयति –

आदित्यस्थमिति ।

तत्पदार्थं त्वंपदार्थं चोक्त्वा तयोरैक्यमुक्तमिदानीमेकीभूतं ज्योतिर्विशिनष्टि –

यदुत्तरमिति ।

एकत्वधीफलं कथयति –

पश्यन्त इति ।

फलमेव प्रश्नपूर्वकं विवृणोति –

किमित्यादिना ।

फलविषयं स्वानुभवं दर्शयति –

अहो इति ।

मन्त्राणां मन्त्रयोश्चैकवाक्यत्वमुपसंहरति –

इदं तदिति ॥७॥

इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य सप्तदशः खण्डः ॥