छान्दोग्योपनिषद्भाष्यम्
तृतीयोऽध्यायःअष्टादशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
मनो ब्रह्मेत्युपसीतेत्यध्यात्ममथाधिदैवतमाकाशो ब्रह्मेत्युभयमादिष्टं भवत्यध्यात्मं चाधिदैवतं च ॥ १ ॥
मनोमय ईश्वर उक्तः आकाशात्मेति च ब्रह्मणो गुणैकदेशत्वेन । अथेदानीं मनआकाशयोः समस्तब्रह्मदृष्टिविधानार्थ आरम्भः मनो ब्रह्मेत्यादि । मनः मनुतेऽनेनेत्यन्तःकरणं तद्ब्रह्म परमित्युपासीतेति एतदात्मविषयं दर्शनम् अध्यात्मम् । अथ अधिदैवतं देवताविषयमिदं वक्ष्यामः । आकाशो ब्रह्मेत्युपासीत ; एवमुभयमध्यात्ममधिदैवतं च उभयं ब्रह्मदृष्टिविषयम् आदिष्टम् उपदिष्टं भवति ; आकाशमनसोः सूक्ष्मत्वात् मनसोपलभ्यत्वाच्च ब्रह्मणः, योग्यं मनो ब्रह्मदृष्टेः, आकाशश्च, सर्वगतत्वात्सूक्ष्मत्वादुपाधिहीनत्वाच्च ॥

ननु यज्ञविज्ञानेन वक्ष्यमाणविज्ञानस्य न सङ्गतिरस्तीति कथं पौर्वापर्यमित्याशङ्क्यानन्तरखण्डस्य व्यवहितेन सम्बन्धमाह –

मनोमय इति ।

इति चेश्वर उक्त इति पूर्वेण सम्बन्धः ।

तत्र ब्रह्मणो गुणयोरेकदेशत्वेन मन आकाशश्चोक्त इत्याह –

ब्रह्मण इति ।

यथोक्तगुणकब्रह्मदृष्ट्यसमर्थस्य तयोरेव सम्पूर्णब्रह्मदृष्टिकथनार्थमुत्तरग्रन्थमवतारयति –

अथेति ।

एवमुभयमुपदिष्टं भवतीति सम्बन्धः ।

तदेवोभयं विभजते –

अध्यात्ममिति ।

कथं मनोदृष्टिविषयत्वेनाध्यात्मं मनो ब्रह्मेत्युपासनं विधित्स्यते तत्राऽऽह –

मनसेति ।

तथाऽपि कथं ब्रह्मदृष्टेराकाशं विषयी भवति न हि तेनोपलभ्यते ब्रह्मेत्याशङ्क्याऽऽह –

आकाशश्चेति ।

ब्रह्मदृष्टेर्योग्यमिति पूर्वेण सम्बन्धः ॥१॥