छान्दोग्योपनिषद्भाष्यम्
तृतीयोऽध्यायःअष्टादशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तदेतच्चतुष्पाद्ब्रह्म वाक्पादः प्राणः पादश्चक्षुः पादः श्रोत्रं पाद इत्यध्यात्ममथाधिदैवतमग्निः पादो वायुः पाद आदित्यः पादो दिशः पाद इत्युभयमेवादिष्टं भवत्यध्यात्मं चैवाधिदैवतं च ॥ २ ॥
तदेतत् मनआख्यं चतुष्पाद्ब्रह्म, चत्वारः पादा अस्येति । कथं चतुष्पात्त्वं मनसो ब्रह्मण इति, आह — वाक्प्राणश्चक्षुःश्रोत्रमित्येते पादाः इत्यध्यात्मम् । अथाधिदैवतम् आकाशस्य ब्रह्मणोऽग्निर्वायुरादित्यो दिश इत्येते । एवमुभयमेव चतुष्पाद्ब्रह्म आदिष्टं भवति अध्यात्मं चैवाधिदैवतं च । तत्र वागेव मनसो ब्रह्मणश्चतुर्थः पाद इतरपादत्रयापेक्षया — वाचा हि पादेनेव गवादि वक्तव्यविषयं प्रति तिष्ठति ; अतो मनसः पाद इव वाक् । तथा प्राणो घ्राणः पादः ; तेनापि गन्धविषयं प्रति च क्रामति । तथा चक्षुः पादः श्रोत्रं पाद इत्येवमध्यात्मं चतुष्पात्त्वं मनसो ब्रह्मणः । अथाधिदैवतम् अग्निवाय्वादित्यदिशः आकाशस्य ब्रह्मण उदर इव गोः पादा इव लग्ना उपलभ्यन्ते ; तेन तस्य आकाशस्य अग्न्यादयः पादा उच्यन्ते । एवमुभयमध्यात्मं चैवाधिदैवतं च चतुष्पादादिष्टं भवति ॥

अध्यात्ममधिदैवतं च विहितस्योपासनस्याङ्गानुचिन्तनं दर्शयति –

तदेतदिति ।

मनसश्चतुष्पात्त्वं प्रश्नपूर्वकं व्युत्पादयति –

कथमित्यादिना ।

आधिदैविकस्याऽऽकाशस्य चतुष्पात्त्वं प्रकटयति –

अथेत्यादिना ।

मन अकाशयोरुक्तं चतुष्पात्त्वं निगमयति –

एवमिति ॥२॥