छान्दोग्योपनिषद्भाष्यम्
चतुर्थोऽध्यायःप्रथमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
वायुप्राणयोर्ब्रह्मणः पाददृष्ट्यध्यासः पुरस्ताद्वर्णितः । अथेदानीं तयोः साक्षाद्ब्रह्मत्वेनोपास्यत्वायोत्तरमारभ्यते । सुखावबोधार्था आख्यायिका, विद्यादानग्रहणविधिप्रदर्शनार्था च । श्रद्धान्नदानानुद्धतत्वादीनां च विद्याप्राप्तिसाधनत्वं प्रदर्श्यते आख्यायिकया —

आदित्यस्य सूत्रावच्छेदभेदत्वात्तदुपासनानन्तरं सूत्रोपासनमुपन्यस्ते । नन्वध्यात्ममधिदैवतं च वायुप्राणयोः सूत्रात्मभूतयोरुपासनं पूर्वाध्यायेऽपि व्याख्यातं तथा च कोऽत्र विशेषो येन तदुपासनं पुनरारभ्यतेऽत आह –

वायुप्राणयोरिति ।

साक्षात्पादकल्पनं विनेति यावत् । ब्रह्मत्वेन ब्रह्मकार्यरूपेणेत्यर्थः ।

विद्येति ।

“धर्मार्थौ यत्र न स्यातां शुश्रूषा वाऽपि तद्विधा । तत्र विद्या न वक्तव्या शुभं बीजमिवोषरे ॥” (म.स्मृ. २ । ११२) इति स्मृतिमनुसंधाय पुष्कलधनमादाय रैक्वो राज्ञे विद्यां प्रादाज्जानश्रुतिश्च शास्त्रार्थं ज्ञात्वा पुष्कलधनं दत्त्वैव श्रद्धादिसंपन्नस्ततो विद्यामाददौ । तथाऽन्योऽपि दाता ग्रहीता वा स्यादिति तद्दानग्रहणयोर्विधिप्रदर्शनार्था चाऽऽख्यायिकेत्यर्थः ।

ननु षट्शतानि गवामित्यादिदर्शनाद्धनदानमेव विद्याग्रहणे साधनमिह प्रतीयते न तु श्रद्धादीत्याशङ्क्याऽऽह –

श्रद्धेति ।

आदिपदेन तात्पर्यप्रणिपातादयो गृह्यन्ते । आख्यायिकया तदु ह पुनरेवेत्यादिलक्षणयेति यावत् ।