छान्दोग्योपनिषद्भाष्यम्
चतुर्थोऽध्यायःप्रथमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस स ह सर्वत आवसथान्मापयाञ्चक्रे सर्वत एव मेऽन्नमत्स्यन्तीति ॥ १ ॥
जानश्रुतिः जनश्रुतस्यापत्यम् । ह ऐतिह्यार्थः । पुत्रस्य पौत्रः पौत्रायणः स एव श्रद्धादेयः श्रद्धापुरःसरमेव ब्राह्मणादिभ्यो यमस्येति श्रद्धादेयः । बहुदायी प्रभूतं दातुं शीलमस्येति बहुदायी । बहुपाक्यः बहु पक्तव्यमहन्यहनि गृहे यस्यासौ बहुपाक्यः ; भोजनार्थिभ्यो बह्वस्य गृहेऽन्नं पच्यत इत्यर्थः । एवंगुणसम्पन्नोऽसौ जानश्रुतिः पौत्रायणो विशिष्टे देशे काले च कस्मिंश्चित् आस बभूव । स ह सर्वतः सर्वासु दिक्षु ग्रामेषु नगरेषु आवसथान् एत्य वसन्ति येष्विति आवसथाः तान् मापयाञ्चक्रे कारितवानित्यर्थः । सर्वत एव मे मम अन्नं तेष्वावसथेषु वसन्तः अत्स्यन्ति भोक्ष्यन्त इत्येवमभिप्रायः ॥

जनश्रुतस्य पुत्रो यस्तस्य पौत्रः पौत्रायणः स च प्रकृतो जानश्रुतिरेवेत्याह –

पुत्रस्येति ।

श्रद्धया देयस्याल्पत्वशङ्कां वारयति –

बहुदायीति ।

बहुपाकस्य फलमाह –

भोजनेति ।

उक्तस्य राज्ञो वर्तमानत्वाभावादसत्त्वमाशङ्क्योक्तमेवमिति ।

स्वसमीपं प्राप्तेभ्य एवार्थिभ्योऽसावन्नं ददातीत्याशङ्क्याऽऽह –

स हेति ॥१॥