विशिष्टान्नदानफलं दर्शयितुमारभते –
तत्रेति ।
वाक्यार्थं दर्शयति –
ऋषय इति ।
संबोधनाभ्यासस्य विषयमाह –
आदरं दर्शयन्निति ।
तदेव दृष्टान्तेन स्पष्टयति –
यथेति ।
भल्लाक्षशब्दार्थमाह –
भल्लेति ।
भल्लाक्षशब्दो भद्राक्षविषयः सन्विरुद्धलक्षणया मन्ददृष्टित्वसूचकः ।
भल्लाक्षशब्दस्य विषयान्तरमाह –
अथवेति ।
तस्य पृष्ठगामिनो हंसस्य महात्मा नातिक्रमणीयो विजानतेति सम्यग्दर्शनाभिमानशालित्वात्तेनाग्रगामी हंसो जानश्रुतिमतिचिक्रमिषुममर्षितया पीड्यमानः सन्न त्वं धर्मं जानासि ज्ञानाभिमानं तु वहसीत्युपालब्धस्तत्र भल्लाक्षेत्युपालम्भस्वरूपं सूचयतीत्यर्थः ।
पृष्ठगामी हंसो निन्दापूर्वकमग्रगामिनं(णं) हंसं संबोध्य किमूचिवानित्यपेक्षायामाह –
जानश्रुतेरिति ।
मा प्रधाक्षीरिति पाठे कथं मा प्रधाक्षीदित्युच्यते तत्राऽऽह –
पुरुषव्यत्ययेनेति ।
मध्यमपुरुषं प्रथमपुरुषं कृत्वा व्याख्यानमित्यर्थः ॥२॥