छान्दोग्योपनिषद्भाष्यम्
चतुर्थोऽध्यायःप्रथमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तमु ह परः प्रत्युवाच कम्वर एनमेतत्सन्तꣳ सयुग्वानमिव रैक्वमात्थेति यो नु कथꣳ सयुग्वा रैक्व इति ॥ ३ ॥
तम् एवमुक्तवन्तं परः इतरोऽग्रगामी प्रत्युवाच — अरे निकृष्टोऽयं राजा वराकः, तं कमु एनं सन्तं केन माहात्म्येन युक्तं सन्तमिति कुत्सयति एनमेवं सबहुमानमेतद्वचनमात्थ रैक्वमिव सयुग्वानम् , सह युग्वना गन्त्र्या वर्तत इति सयुग्वा रैक्वः, तमिव आत्थ एनम् ; अननुरूपमस्मिन्नयुक्तमीदृशं वक्तुं रैक्व इवेत्यभिप्रायः । इतरश्च आह — यो नु कथं त्वयोच्यते सयुग्वा रैक्वः । इत्युक्तवन्तं भल्लाक्ष आह — शृणु यथा स रैक्वः ॥

एवं सन्तमेनं प्राणिमात्रं राजानमधिकृत्य सबहुमानमेतद्वचनमात्थेति कुत्सयतीति सम्बन्धः । तत्र वैधर्म्यदृष्टान्तमाह –

रैक्वमिवेति ।

युगं वहतीति युग्यो बलीवर्दोऽश्वो वाऽस्यामस्तीति युग्वा शकटी तया सह वर्तत इति सयुग्वा रैक्वः । वकारो मत्वर्थीयः त्वं रैक्वं ज्ञानमाहात्म्ययुक्तमधिकृत्य यथा प्रशंसावचनं तथा कर्मिणमेनं राजानमधिकृत्य कथमेवमात्थेत्यर्थः ।

उक्तं वाक्यार्थं संकलयति –

अननुरूपमिति ।

अस्मिन्वराके राजनि धर्ममात्रनिष्ठेनेदमनुरूपं वचनं रैक्वे पुनर्विज्ञानवति यथोक्तं वचो युक्तमेवेति । इतरः पृष्ठगामी हंसः । यः सयुग्वा रैक्वस्त्वयोच्यते स कथं नु स्यादित्यन्वयः ॥३॥