स रैक्वो येन प्रकारेण स्यात्तं प्रकारं शृण्विति प्रतिज्ञाय प्रकारप्रदिदर्शयिषया दृष्टान्तमाह –
यथेति ।
द्यूतस्य समयः संकेतस्तदनुष्ठानकालो (वा) येन द्यूतविद्यायामेजति सोऽक्षस्तस्य कश्चिद्भागोऽथशब्दवाच्यस्तत्र यश्चतुरङ्को भागश्चत्वारोऽङ्काश्चिह्नान्यस्मिन्निति व्युत्पत्तेः कृतनामव्यवहृतेन[तेन] यदा द्यूते प्रवृत्तानां मध्ये स कोऽपि जयति तदा तस्मै कृतनामवते विजितायाधरेऽयाः संयन्तीति सम्बन्धः ।
तदर्थं व्याचष्टे –
तदर्थमिति ।
अधरेयान् व्याकरोति –
अधरेया इति ।
तानेव विशिनष्टि –
त्रेतेति ।
अक्षस्य यस्मिन्भागे त्रयोऽङ्काः स त्रेता नामायो भवति । यत्र तु द्वावङ्कौ स द्वापरनामकः । यत्रैकोऽङ्कः स कलिसंज्ञ इति विभागः ।
तादर्थ्येनेतराङ्काना(णा)मन्तर्भावमुक्तं व्यक्तीकरोति –
चतुरङ्क इति ।
तदन्तर्भवन्ति तस्मिन्कृते त्रेतादयस्तेऽन्तर्भवन्तीति यावत् । महासंख्यायामवान्तरसंख्यान्तर्भावः प्रसिद्ध एवेत्यर्थः ।
दृष्टान्तमनूद्य दार्ष्टान्तिकमाह –
यथेति ।
रैक्वमभिव्याप्य सर्वं समेतीत्यस्यार्थं संक्षिपति –
अन्तर्भवतीति ।
रैक्वे सर्वस्यान्तर्भावं प्रश्नपूर्वकं प्रकटयति –
किं तदित्यादिना ।
तद्धर्मस्य महत्त्वादन्येषां च धर्मजातस्याल्पत्वात्तस्येतरस्मिन्नन्तर्भावः संभवतीत्यर्थः ।
किं च सर्वेषां प्राणिनां धर्मफलमल्पीयस्त्वान्महत्तरे रैक्वस्य धर्मफलेऽन्तर्भवतीत्याह –
तस्य चेति ।
न केवलं रैक्वस्यैतन्माहात्म्यं किन्त्वन्यस्यापि ज्ञानवतोऽस्तीति जानश्रुतेरनुग्रहार्थमाह –
तथेति ॥४॥