छान्दोग्योपनिषद्भाष्यम्
चतुर्थोऽध्यायःतृतीयः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
यदाप उच्छुष्यन्ति वायुमेवापियन्ति वायुर्ह्येवैतान्सर्वान्संवृङ्क्त इत्यधिदैवतम् ॥ २ ॥
तथा यदा आपः उच्छुष्यन्ति उच्छोषमाप्नुवन्ति, तदा वायुमेव अपियन्ति । वायुर्हि यस्मादेव एतान् अग्न्याद्यान्महाबलान् संवृङ्क्ते, अतो वायुः संवर्गगुण उपास्य इत्यर्थः । इत्यधिदैवतं देवतासु संवर्गदर्शनमुक्तम् ॥

कथं विद्यामुक्तवानित्याशङ्क्याधिदैवतं तदुक्तिप्रकारं दर्शयति –

वायुरित्यादिना ।

प्राणो वाव संवर्ग इति वक्ष्यमाणेनापुनरुक्ततायै वायुं व्याचष्टे –

वायुर्बाह्य इति ।

संवर्जनादित्यस्य व्याख्या संग्रहणादिति ।

संग्रहणपक्षं समर्थयते –

वक्ष्यमाणा इति ।

किमिति संवर्गत्वं वायोरुपदिश्यते तत्र दृष्टान्तश्रुतिं प्रमाणयति –

कृतायेति ।

संग्रसनाद्वेत्युक्तं पक्षमाकाङ्क्षापूर्वकं व्युत्पादयति –

कथमित्यादिना ।

सूर्याचन्द्रमसोर्वायावपिगमनमाक्षिपति –

नन्विति ।

आप्रलयात्तयोरधिकारपदे स्थित्यङ्गीकारात्स्वरूपावस्थितत्वं द्रष्टव्यम् ।

सूर्यादेः स्वरूपावस्थानेऽपि वायावप्ययः सम्भवतीति समाधत्ते –

नैष दोष इति ।

अस्तमने सति सूर्यादेरदर्शनप्राप्तेर्वाय्वधीनत्वं व्युत्पादयति –

वायुना हीति ।

सूर्यग्रहणं चन्द्रमसोऽप्युपलक्षणम् ।

गौणस्तर्हि वायावप्ययः सूर्यादेरित्याशङ्क्य पक्षान्तरमाह –

अथवेति ।

सङ्गतिसमये हि संहरति वेत्यर्थः ॥१ – २॥